________________
२७०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् हा ! धातर्दशितोऽसौ मे, कुत: सितविहङ्गमः ? । दर्शितो वा ततोऽकस्मात् , कस्मादपहृतस्त्वया ? ॥२०१।। विलपन्त्यामिदं तस्यां, चित्रश्चित्रपटोऽग्रतः । पपात च नभोदेशादुच्चचार च भारती ॥२०२।। अहं स हंसस्तच्चित्रपटं त्वत्पुरतोऽमुचम् । अस्यानुसारतः सोऽयमुपलक्ष्यः स्वयंवरे ॥२०३।। अनुरागं तवेवाहं, तस्याप्याधातुमातुरः । यास्यामि न यतः क्वापि, सन्धिः सन्तप्त-शीतयो ॥२०४॥ इत्युक्त्वा तत्र तूष्णीके, सा ते चित्रगतं वपुः । दध्यौ यत्ननिबद्धस्य, जीवितस्येव यामिकम् ॥२०५।। तत् त्वया देव ! यातव्यं, तत्र तस्याः स्वयंवरे ।
विजितानङ्गसङ्गोस्तु , भवतोरनुरूपयोः ॥२०६।। $एतच्चेतश्चमत्कारि, निशम्य वचनं तदा ।
जगाद वसुदेवोऽपि, मित्र ! हंसो भृशं न सः ॥२०७।। समयुग्माभिषङ्गाय, स्मरस्तं प्राहिणोद् विधुम् । अथवा मम तस्याश्च, मूर्तं पुण्यमिव व्यधात् ॥२०८।। चन्द्रापीड ! त्वया चेयं, ज्ञाता मित्र ! कथं कथा ? । हंसीभूय स्वयं वा त्वं, मत्कृते कृतवानिदम् ? ॥२०९।। इत्युक्ते स्मयमानोऽयं, कुमारेणोपलक्षितः । आलिङ्गितश्च बाहुभ्यां, तादात्म्यमिव तन्वता ॥२१०।। समं तेनाथ निश्चित्य, स्वयंवरगति कृती । तं च प्रहित्य पल्यङ्के, निविष्टो नीतवान् निशाम् ॥२११।। सुकोशलामथाऽऽपृच्छ्य, प्रातरुत्कण्ठितो ययौ । पेढालनगरोपान्ते, लक्ष्मीरमणकानने ॥२१२॥ वाक्सुधास्यन्दचन्द्रेण, हरिश्चन्द्रेण सत्कृतः ।
सैन्यमावासयत् तत्र, वसुदेवो वनावनौ ॥२१३।। १. °ण्यमिति व्य° खंता० ॥ २. °न्द्रातप ! त्व खंता० ॥
20
25
D:\maha-k.pm5\2nd proof