________________
5
10
151
20
25
२८० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बद्धाविव प्रेमगुणैः, शक्तौ विघटितुं न तौ । दवदन्ती-नलावेकरथारूढौ प्रचेलतुः ॥३२९॥ स्थपुटाध्वस्खलच्चक्ररथघूर्णिस्तयोर्मुहुः । मिथःसङ्घट्टसङ्कल्पकल्पपादपतां ययौ ॥३३०|| तदा दीप्तौषधीनुर्नैर्गुहाभ्य इव भूभृताम् । ध्वान्तैः कोकवियोगाग्निधूमैरिव विजृम्भितम् ॥३३१|| धाराधरैरिव ध्वान्तैर्निरुद्धे मरुदध्वनि । चुम्बना-ऽऽलिङ्गनैराशु, तयोः प्रेमलताऽफलत् ॥३३२॥ ध्वान्तैरध्वनि रुद्धेऽपि, नृपे वासमतन्वति । जनो जगाम सैन्येभरत्नादर्शप्रभामनु ||३३३|| तदा च धुर्यमाधुर्यं, मधुव्रतकुलध्वनिम् । निशम्य भीमनन्दन्या, वल्लभः समभाष्यत ॥३३४||
न तावद् भाति सौरभ्यसंरम्भः कानने क्वचित् ।
तत् कुतः कुतुकोल्लासकारिणी भृङ्गझात्कृतिः ? ||३३५॥ प्रिये ! किं ज्ञायते ध्वान्ते ?, तदा कान्ते वदत्यदः । ममार्ज पाणिपद्मेन, भालं भीमनृपाङ्गजा ||३३६|| दीप्तोऽथ तिलकस्तस्याः, प्रताप इव भास्वतः । अकस्माद् भस्मयामास, तमः समुदयं वने ॥ ३३७|| वनेभगण्डसङ्क्रान्तमदाविलमथो नलः । कायोत्सर्गजुषं कञ्चिन्मुनिं वीक्ष्य मुदं दधौ ॥ ३३८ ॥ करिघट्टेऽपि नाचालीत्, कर्मभिस्तद्बहिष्कृतैः । व्याख्यातोऽयमलिव्याजाद्, गुणा ग्राह्या रिपोरपि ॥ ३३९॥ वदन्निदं नलस्तूर्णमुत्तीर्णः प्रियया सह । नमस्कृत्य च तं साधुं, पुनः स्यन्दनमागमत् ॥३४०॥ काकिणीरत्नविस्पर्द्धिभैमीतिलकतेजसा । ध्वान्ते हतेऽथ तत्सैन्यं, चक्रिसैन्यमिवाचलत् ॥३४१॥
D:\maha-k.pm5\ 2nd proof