________________
एकादशः सर्गः ]
उत्पत्तिरियमेतस्या, नासौ वीर ! वणिक्सुता । श्रुत्वेति वसुदेवस्तामुपयेमे रमासमाम् ॥१६३॥ रक्त्या चाथ विरक्त्या च च्छलेन च बलेन च । कलाजयेन चानेकदेशोद्देशान् परिभ्रमन् ॥१६४॥ भूपानां खेचराणां च द्विजानां वणिजामपि । कन्याः सौन्दर्य-सौभाग्य- लावण्यादिगुणास्पदम् ॥१६५॥
[ २६७
स कदाप्युपरोधेन कदापि हठतः पुनः ।
कदापि कौतुकेनैव, परितः परिणीतवान् ॥ १६६ ॥ विशेषकम् ॥ सुकोशलाभिधां पुत्रीं, कोशलस्य खगेशितुः । कोशलायां पुरि प्राप्तः, स कदाचिदुदूढवान् ॥१६७॥ सुप्तः श्रान्तो रतान्तेऽसौ, केनाप्यङ्गुष्ठचालनात् । उत्थापितो बहिर्गत्वा, कोऽयमेवमचिन्तयत् ॥१६८॥ अथो पतन् पदोपान्ते, कुमारेणोपलक्षितः । खेचरोऽनुचरोऽसौ मे, चन्द्रहास इति स्वयम् ॥१६९॥ ततः सगौरवं गौरवचसा तमुवाच सः । कुमार ! प्रमदामोदसद्योविद्योतिमानसः ॥ १७० ॥ केन प्रयोजनेन त्वं कुतः स्थानादिहागतः ? | एतावत्यां तमस्विन्यां, तथ्यमित्थं निवेदय ॥१७१|| अथावददयं विद्याधरः प्रमदुर्धरः ।
शृणु देव ! कथामेकां, कौतूहलनिकेतनम् ॥१७२॥ §§ पेढालपुरमित्यस्ति, पुरं भूखण्डभूषणम् । स्मरस्य खुरलीवाभूद्, यल्लोलाक्षीकटाक्षितैः ॥१७३॥ हरिश्चन्द्रोऽसुहृद्दन्तिहरिश्चन्द्रोज्ज्वलाशयः । तत्रास्ति भूविभुः कीर्त्तिकुसुमाराममालिकः ॥१७४॥
१. चन्द्रातप इति खंता० ॥ २. ° त्थं न्यवेदयत् पाता० । ३. स्त्रीमुखानां बभौ साङ्कः, शशाङ्को यत्र किङ्करः ॥ इतिरूपः पाठः खंता० पाता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20