________________
5
10
15
20
25
२६८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् लक्ष्मीवतीति तस्यास्ति, रूपलक्ष्मीवती प्रिया । नीरे यदास्यदास्याय, तत् तपस्तप्यतेऽम्बुजैः ॥१७५॥ सती सुतामसूताऽसौ, सरसीव सरोजिनीम् । जनलोचनलोलालिलिह्यमानमुखाम्बुजाम् ॥१७६॥ तस्या जन्मदिने स्वर्णवर्षमुत्कर्षकृद् बभौ । मेरोरुपागतं सेवाकृते जितमिव त्विषा ॥ १७७॥ पितृभ्यां कौतुक - प्रीतिपूरिताभ्यां सुनिर्भरम् । सत्यं कनकवत्येषा, नामतोऽपि ततः कृता ॥ १७८॥ तत् प्रपेदे क्रमेणासौ, कलाभ्यासमयं वयः । रतिप्राणप्रियोऽप्यासीद्, यस्मिन् वासाय सस्पृहः ॥१७९॥ चन्द्रमूर्तिरिव स्वच्छा, खेरिव गुरोरियम् । प्राप्य कञ्चित् कलोद्देशं, प्रपेदे सकलाः कलाः ॥१८०॥ तद्भूपस्तनयारूपानुरूपमनिरूपयन् । प्रवरं स वरं कञ्चित्, समारेभे स्वयंवरम् ॥ १८१॥ स्वयंवरदिने मासमात्रासन्ने च सा स्वयम् । गवाक्षेऽक्ष्णीव गेहस्य, तस्थौ तारेव कन्यका ॥१८२॥ ss अत्रान्तरे पुरस्तस्या, गतिशिक्षामतिः किल । हारेण हस्यमानोऽपि, हंसः कोऽपि दिवोऽपतत् ॥१८३॥
कल्याणकिङ्किणीकान्तभूषणानणुझात्कृतिः ।
स तयाऽऽरोपितः पाणो, मरालः कमलत्विषि ॥ १८४ ॥ अथासौ शश्वदम्भोजमरन्दस्वादहृदया । चमत्कृतिकृता मर्त्यभाषया तामभाषत ॥१८५॥ यदि ते कुतुकं किञ्चिच्चित्ते तन्वि ! तदद्भुता । संवदन्ती सुधास्यन्दैः, किंवदन्ती निशम्यताम् ॥ १८६॥ अथावददियं तावत्, त्वं वक्तेत्यद्भुतं महत् । सा कथाऽप्यद्भुता हंस !, भविष्यत्याशु तद् वद ||१८७||
D:\maha-k.pm5\ 2nd proof