________________
२६६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पूर्वजन्मन्यहं छागष्टङ्कणे रुद्रमारितः । एतस्मात् प्राप्तसर्वज्ञधर्मः सौधर्ममासदम् ॥१५१।। धर्माचार्यस्ततोऽयं मे, तेनाऽऽदौ वन्दितो मया । चारुदत्तः कृपाराशिरिति नोल्लङ्घितः क्रमः ॥१५२।। तौ खगौ प्रतिबोध्येति, स देवः प्राह मां प्रति । वद प्रत्युपकारं ते, कीदृशं करवाण्यहम् ? ॥१५३।। मयोक्तं समये तूर्णमेतव्यमथ सोऽगमत् । अगृह्ये खेचराभ्यां च, ताभ्यां निजपुरं प्रति ॥१५४।। तच्चिरं सत्कृतस्ताभ्यां, तज्जनन्या च तस्थिवान् । स्वसा गन्धर्वसेनेयमन्येधुर्दर्शिता च मे ॥१५५॥ निवेदितं च यत् तातः, प्रव्रजन्निदमब्रवीत् । चारुदत्तोऽस्ति मे मित्रं, भूचरो जीवितप्रदः ॥१५६।। उत्कीलितोऽस्मि तेनाहं, यदकारणबन्धुना । तस्य गन्धर्वसेनेयमर्पणीया कथञ्चन ॥१५७।। परिणेष्यत्यमूं मो, वसुदेवः कलाजिताम् । इत्युक्तं ज्ञानिनाऽस्मभ्यं, ततः कार्यं तथैव तत् ॥१५८॥ स्वपुत्री तद् गृहाणैतां, श्रुत्वाऽहमपि तद्वचः । एनामादाय सद्योऽपि, गृहायोत्कण्ठितोऽभवम् ॥१५९।। इहान्तरे समायासीद् , देवोऽसावजजीवजः । तेन ताभ्यां खगाभ्यां च, सह सोऽहमिहाऽऽगमम् ॥१६०।। स देवो भूरि दत्वा मे, हेम-रत्नादिकं ततः । जगाम त्रैदिवं धाम, वैताढ्यं खेचरौ च तौ ॥१६१॥ सर्वार्थो मातुलः शीलगृहं मित्रवती च सा । वेश्या वसन्तसेना च, बद्धवेणिर्मयेक्षिता ॥१६२॥
१. °द्रतो मृतः । ए° पाता० ॥ २. ताभ्यां गन्ध° खंता० पाता० ॥ ३. हमिति त° खंता० पाता० ॥
D:\maha-k.pm5\2nd proof