________________
10
एकादशः सर्गः]
[२६५ शस्त्रीदीर्णाजिनस्तीर्णसरास्तत्राटवीमटन् । आरूढः शैलमनमं, कायोत्सर्गस्थितं मुनिम् ॥१३८।। धर्मलाभं ततो दत्त्वा, मुनिरेवमुवाच माम् । चारुदत्त ! कथं प्राप्तः, पथि त्वं खेचरोचिते ? ॥१३९।। महात्मन् ! खेचरः सोऽहं, यः पुरा मोचितस्त्वया । त्वामापृच्छय गतोऽन्वेष्टुं , तदा दारापहारिणम् ॥१४०।। गतश्चाष्टापदे हृष्टेऽपश्यमेकाकिनी प्रियाम् । ततः श्रुतं मया वैरी, यद् भीत: प्रपलायितः ॥१४१॥ दयितां तामुपादाय, ततो यातः परं निजम । नीतः पित्रा ततो राज्यभारोद्धारे धुरीणताम् ॥१४२।। विद्याधरश्रमणयोर्हिरण्य-स्वर्णकुम्भयोः । सकाशे स्वयमग्राहि, तातेन व्रतमद्भुतम् ॥१४३।। जज्ञे मनोरमाकुक्षौ, सुतः सिंहयशा मम । वराहग्रीवनामाऽन्यो, मान्यो दर्पवतामपि ॥१४४।। सुता गन्धर्वसेनेति, जाता विजयसेनया । सर्वगान्धर्वसर्वस्वसङ्केतैकनिकेतनम् ॥१४५।। दत्त्वा च सुतयो राज्यं, यौवराज्यं च तन्मया । विद्याः सम्पाद्य च प्रापि, पितृगुर्वन्तिके व्रतम् ॥१४६।। द्वीपोऽयं कुम्भकण्ठाख्यः, क्षारवारिधिमध्यगः । गिरिः कर्कोटकश्चायं, कथमत्राऽऽगतो भवान् ? ॥१४७।। इत्यस्मिन् पृच्छति ख्यातं, सर्वं स्वचरितं मया । अथास्य नन्दनौ प्राप्तौ, खेचरौ तं च नेमतुः ॥१४८।। नम्यतां चारुदत्तोऽयमित्युक्तौ तेन तौ नतौ । तेदैत्य च सुरः कोऽपि, मां नत्वाऽथ मुनि नतः ॥१४९।। खेचराभ्यां तदा पृष्टस्तं वन्दनविपर्ययम् ।
अयं वैमानिकः प्राह, प्रमोदभरपूरितः ॥१५०॥ १. तत° खंता० ॥ २. तदा चैत्य सु° पाता० ॥ ३. °रः कश्चिन्मां खंता० ॥
20
D:\maha-k.pm5\2nd proof