________________
२६४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् नमस्कारं च मे देहि, परलोकाध्वशम्बलम् । कृते मयाऽथ तत्प्रोक्ते, परलोकं जगाम सः ॥१२५।। तद्रसग्रसनप्राप्तगोधापुच्छग्रहादहम् । निःसृतो मूच्छितः प्राप्तसञोऽरण्ये ततोऽभ्रमम् ॥१२६॥ अटवीमहिषेणाऽऽप्तस्तदाऽऽरूढो महाशिलाम् । तत्राजगरसंरुद्धस्ततोऽहं द्रुतमत्रसम् ॥१२७।। तत् प्रयातोऽटवीप्रान्तग्रामे रोगेण पीडितः । अहं मातुलमित्रेण, रुद्रदत्तेन पालितः ॥१२८॥ गृहीत्वाऽलक्तकं स्वर्णभूमौ तेन सहाऽचलम् । इषुवेगवतीं तीा, गिरिकूटं विलय च ॥१२९॥ क्रमाद् वेत्रवनं गत्वा, देशं टङ्कणमागतौ । ततः क्रीतच्छगारूढावुत्तीर्णौ वज्रमेदिनीम् ॥१३०॥ युग्मम् ॥ रुद्रदत्तोऽवदत् पन्था, नैवातः पादचारिणाम् । भस्त्रे कुर्वश्छगौ हत्वा, बहिरन्तर्विपर्ययात् ॥१३१।। तदन्तरस्थितावावां, भारुण्डैरामिषभ्रमात् । उत्पाट्याम्भोनिधौ स्वर्णमहीं नेष्यावहे जवात् ॥१३२।। श्रुत्वेत्यथावदं दुर्गपथसम्बन्धबान्धवौ । छागाविमौ ततः कार्षीः, पापं मातुल ! माऽतुलम् ॥१३३।। नैतौ त्वदीयावित्युक्त्वा, स्वं स च्छागं क्रुधाऽवधीत् । मदजो मन्मुखं दीनमुखस्तेन व्यलोकयत् ॥१३४॥ तन्मयोक्तं तव त्राणे, नाहमीशस्तथापि ते । धर्मोऽस्तु मगिरा जैनः, परलोकविशुद्धये ॥१३५।। मया दिष्टं ततो धर्म, मनसा प्रतिपद्य सः । मत्प्रदत्तं नमस्कारं, मुदा शृण्वन् हतोऽमुना ॥१३६।। तद्भस्त्रान्तर्गतावावां, भारुण्डाभ्यां छुरीजुषौ । हृतौ ततोऽन्यभारुण्डयुद्धेऽहं सरसि च्युतः ॥१३७।।
15
D:\maha-k.pm5\2nd proof