________________
२६०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तत् तीर्वाऽऽशु सरस्तीरे, वासुपूज्यालयं गतः । जिनं नत्वा सहैकेन, द्विजेन पुरी जग्मिवान् ॥७४।। यूनो वीणाजुषः प्रेक्ष्य, हेतुं पप्रच्छ स द्विजात् । अथो कथयितुं तस्मै, प्रारेभे द्विजकुञ्जरः ॥७५॥ इह गन्धर्वसेनाऽस्ति, चारुदत्तवणिक्सुता ।। सा प्राह स पतिः स्यान्मे, यो मां जयति वीणया ॥७६।। वीणाचार्यों यशोग्रीव-सुग्रीवाविह तिष्ठतः । वीणाभ्यासं तदभ्यासे, तन्वन्त्येते तदिच्छया ॥७७।। मासे मासे परीक्षा स्यान्न कोऽपि च जयत्यमूम् । वसुदेवो निशम्येति, विद्याविकृतरूपकृत् ॥७८॥ विप्रवेषधरो गत्वा, सुग्रीवं प्रत्यदोऽवदत् । वीणायां तव शिष्योऽस्मि, चारुदत्तसुताकृते ॥७९॥ सोपहासमुपाध्यायः, स्थापयामास तं ततः । अहासयज्जनान् सोऽपि, मर्खत्वमिव दर्शयन् ॥८०।। अथाऽऽजगाम मासान्ते, चारुदत्तस्य नन्दनी । वीणाभ्यासकृतां यूनां, परीक्षां कर्तुमात्मना ॥८१॥ उपाध्यायेन शिष्यैश्च, चारुचीरधरस्तदा । वसुदेवः प्रहासाय, स्थापितः प्रौढविष्टरे ॥८२॥ ते युवानोऽथ सर्वेऽपि, वीणया विजितास्तया । वादाय वसुदेवोऽथ, तैरूचे परिहासिभिः ॥८३॥ अथाऽऽधाय निजं रूपं, चमत्कारकरं नृणाम् । वीणाः प्रदूष्य यूनां च, तस्या वीणां करेऽग्रहीत् ॥८४।। गेयो विष्णुकुमारस्य, त्रिविक्रमपराक्रमः । गन्धर्वसेनयेत्युक्ते, स चक्रे सर्वमप्यदः ॥८५।। हृष्टेन चारुदत्तेन, स गृहे जगृहे मुदा ।
ततो विवाहदीक्षायां, पृष्टे गोत्रादिकेऽहसत् ॥८६।। १. °पि तु ज° खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof