________________
एकादशः सर्गः ]
[२५९
नाम्ना चाऽशनिवेगोऽस्ति, खगस्तदनुजो बली । आस्ते ज्वलनवेगस्य, सूनुरङ्गारकः पुनः ॥ ६१॥ एतस्याशनिवेगस्य, सुताऽहमभवं विभो ! । व्रती ज्वलनवेगोऽभूत्, कृत्वा मत्पितरं नृपम् ॥६२॥ तदङ्गारकवीरेण, विद्या-बलविलोभिना । जित्वा मत्पितरं राज्यमिदमद्भुतमाददे ॥६३॥ अष्टापदेऽन्यदाऽऽख्यातं, मत्पितुश्चारणर्षिणा । जलावर्ते गजं जेता, राज्यदस्ते भविष्यति ॥६४॥ तदादि तत्र मुक्ताभ्यां खगाभ्यां त्वं जितद्विपः । हृतोऽसि राज्यलोभेन, दत्ता तुभ्यमहं पुनः ॥६५॥ स्त्रीयुतं यः खगं हन्ति, स विद्याभिर्विमुच्यते । इत्याचारः सदैवास्ति, समये व्योमचारिणाम् ||६६|| तत् क्रूरोऽङ्गारकस्तुभ्यं, मा कार्षीत् प्रिय ! विप्रियम् । अवियोगस्तदेतेन, कारणेन मया वृतः ॥६७॥ प्रतिपद्य गिरं सद्यस्तदीयामिति वृष्णिसूः । तत्रावतस्थे सौस्थ्येन, समं दयितया तया ॥६८॥ सुप्तः स चान्यदा रात्रौ, वीरो वनितया समम् । अङ्गारकेणापहृतो, वसुदेवः प्रबुद्धवान् ॥६९॥ को मे हर्तेति विमृशन्, ददर्श निजवल्लभाम् । श्यामामङ्गारकेणैव, खड्गाखड्गि वितन्वतीम् ॥७०॥ अङ्गारकेण सा श्यामा, खड्गेनाऽऽशु द्विखण्डिता । द्वे श्यामे युध्यमाने तद्, वसुदेवो व्यलोकयत् ॥७१॥ अथ मायामिमां मत्वा, वार्ष्णेयोऽङ्गारकं रुषा । जघान मुष्टिना मूर्ध्नि, केशरीव करीश्वरम् ॥७२॥ उद्घातपातरुग्णेन, विमुक्तोऽङ्गारकेण सः । च्युतश्चम्पापुरीपार्श्वे, सरोवरपयोऽन्तरा ||७३ ||
१. वृष्णिभूः खंता० ॥ २. 'माने च वसु° खंता० ॥ ३. मां ज्ञात्वा खंता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25