________________
२५८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्यसौ परमार्थेन, निजं मत्वा नियन्त्रणम् । देशान्तरविलोकाय, नि:ससार पुरान्निशि ॥४८॥ रचयित्वा चितामेष, श्मशानभुवि भूरिधीः । निक्षिप्य मृतकं किञ्चिदन्तरज्वालयन्मुदा ॥४९॥ स्तम्भं न्यस्य तटे तस्य, पत्रिकायां लिलेख सः । गुरुभिर्दूषितगुणो, वसुदेवोऽनलेऽविशत् ॥५०॥ इति कृत्वा व्रजन् दृष्टः, कयाऽपि पथि कान्तया ।
आरोपितो रथे खिन्न, इति ब्राह्मणवेषभृत् ॥५१॥ तद्ग्रामे तद्गृहे स्नात-भुक्तो यक्षालयस्थितः । शुश्रावाग्नौ मृतोऽशोचि, वसुदेवः स्वकैरिति ॥५२॥ अथाऽऽत्मज्ञाननिर्भीकः, प्रचलन्नग्रतो बली । कयाऽपि किल कामिन्या, रथमारोपितो निजम् ॥५३।। पुरे विजयखेटाख्ये, सुग्रीवक्ष्मापतेः सुते । श्यामा-विजयसेनाख्ये पर्यणैषीत् कलाजिते ॥५४॥ ततो विजयसेनायामुत्पाद्याऽक्रूरमङ्गजम् । अटन्नटव्यां तस्थौ स, जलावर्ताख्यपल्वले ॥५५॥ द्विपं मत्तमिहायातं, वशीकुर्वन्नसौ वशी । खगाऽर्चिमालि-पवनञ्जयाभ्यां सहसा हृतः ॥५६।। उद्याने कुञ्जरावर्ते, नीतस्यास्य मुदा ददौ । खेचरोऽशनिवेगाख्यः, श्यामां नाम निजात्मजाम् ॥५७।। अयं तया प्रवीणात्मा, वीणावाद्येन तोषितः । ददौ वरं तयाऽयाचि, सदाऽप्यविरहस्ततः ॥५८।। अवियोगस्त्वयाऽयाचि, कुतः सुतनु ! कथ्यताम् ? । इत्युक्ते वसुदेवेन, सा बभाषे मृगेक्षणा ॥५९।। पुरे किन्नरगीताख्ये, वैताढ्यगिरिभूषणे ।।
राजा ज्वलनवेगोऽभूदर्चिमालिनृपात्मजः ॥६०॥ १. यन्त्रितम् खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof