________________
एकादशः सर्गः ]
जरासन्धमुपस्थाय, समुद्रविजयस्ततः । कंसस्य शौर्यमाख्याय, तं सिंहरथमार्पयत् ॥३६॥ दत्त्वा सुतां नृपोऽपृच्छद्, देशमिष्टमनेन तत् । पितृद्विषा ययाचे सा, कंसेन मथुरापुरी ||३७|| तज्जरासन्धदत्तोग्रबलोऽयं मथुरां गतः । उग्रसेननृपं कंसः, काष्ठपञ्जरकेऽक्षिपत् ॥३८॥ मया त्यक्तोऽसि नो वेत्ति, वार्तामपि पिता तव । एवमुक्तेऽपि धारिण्या, नोग्रसेनं मुमोच सः ॥३९॥ कंसानुजोऽतिमुक्ताख्यः, पितृदुःखाकुलस्ततः । कृती व्रतं स जग्राह, मुक्तिमार्गैकपल्वलम् ॥४०॥ समुद्रविजयः सोऽपि, स्वामिना सत्कृतस्ततः । ययौ शौरिपुरे शूरसमुच्चयशिरोमणिः ॥४१॥ [ वसुदेवहिण्डिः ]
वसुदेवाङ्गसौभाग्यकृष्टस्त्रीविप्लवाकुलैः । नृपः कदाऽपि विज्ञप्तो, नागरैर्नयसागरैः ॥४२॥ समुद्रविजयेनाथ, तादृग्विप्लवभीरुणा । अभाषि वसुदेवोऽयमुत्सङ्गारोपपूर्वकम् ॥४३॥ अहर्निशं बहिर्भ्रान्त्या, दुर्बलोऽसि ततस्त्वया । स्थेयं सदा मदावासे, कलाभ्यासविनोदिना ॥४४॥ गुरोर्गिरं शिरस्येष, शेषामिव निधाय ताम् । सौध एव स्थितश्चक्रे, कलाभ्यासमहर्निशम् ॥४५॥ स कदाऽपि शिवादेव्या, प्रेषितं भूपतिं प्रति । चन्दनोद्वर्तनं चेटीहस्ताज्जग्राह नर्मणा ॥ ४६ ॥ उक्तश्चेटिकया सोऽपि, वसुदेवः सहासया । राज्ञा स्त्रीनर्मदोषेण, त्वमनेनासि यन्त्रितः ॥४७॥ १. मुक्तोऽपि खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[२५७
5
10
15
20
25