________________
२५६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वसुदेवमथावादीन्नृपस्तुभ्यं प्रदास्यति । राजा तुष्टो जरासन्धस्तां जीवयशसं सुताम् ॥२४॥ पति-तातकुलोच्छित्त्यै, सा तु ज्ञातमिदं मया । क्रोष्टकिज्ञानिवचसा, तत् तत्त्यागे मतिं कुरु ॥२५॥ ध्यात्वाऽथ वसुदेवोऽपि, जगाद नृपतिं प्रति । युद्धे कंसेन बद्धोऽयं, तद् यशोऽस्यैव दीयताम् ॥२६।। तदगद्यत भूपेन, जरासन्धनृपः कथम् । सुतामपि बलिष्ठाय, वणिक्पुत्राय दास्यति ? ॥२७॥ अवादि वसुदेवेन, मन्ये नासौ वणिक्सुतः । जानामि विक्रमेणेति, तत्पिताऽऽकार्य पच्छयते ॥२८।। अथाऽऽहूय सुभद्रोऽयं, कंसोत्तंसितसन्निधिः । राज्ञा सशपथं पृष्टः, सुतोऽयं ते किमौरसः ? ॥२९॥ इत्युक्ते भूभृताऽवोचत् , सुभद्रोऽपि यथातथम् । गतोऽहमेकदा शौचहेतवे यमुनामनु ॥३०॥ अदर्शि कांस्यमञ्जूषा, तत् तरन्ती रयान्मया । आकृष्योद्घाटिता तस्यां, दृष्टोऽयं महसांनिधिः ॥३१।। मुद्रिकायुगभाजोऽस्य, गृहीतस्य शिरस्तले । लब्धेयमिति भूपाङ्घ्रिपुरः पुत्रीं मुमोच सः ॥३२।। उग्रसेनसुतेऽमुष्मिन् , धारिण्याः कुक्षिवर्तिनि । पूरितश्छद्मनाऽमात्यैः, पत्यन्त्रस्वाददोहदः ॥३३॥ पितृवैरीति सञ्चिन्त्य, पुत्रः प्राणप्रियोऽप्यसौ । मात्राऽतिनिन्द्यः कालिन्द्याः, प्रवाहेऽस्मिन् प्रवाहितः ॥३४॥ युग्मम् ।। पत्रिकां वाचयित्वेति, मुमुदे मेदिनीश्वरः । निजगोत्रावतंसं, तं, कंसं विज्ञाय तत्क्षणात् ॥३५॥
१. तत्त्यागे तन्मति खंता० ॥ २. पाङ्ग्रेः, पु पाता० ।। ३. प्ययम् खंता० पाता० ॥ ४. नीपतिः खंता० ॥
D:\maha-k.pm5\2nd proof