________________
[२५५
एकादशः सर्गः]
समुद्रविजयं न्यस्य, स्वपदेऽन्धकवृष्णिना । सुप्रतिष्ठान्मुनेरेव, प्रव्रज्य प्रापि निर्वृतिः ॥११॥ राज्ये न्यस्योग्रसेनं च, भोजवृष्णिर्महाभुजः ।। सुप्रतिष्ठस्य पादान्ते, दान्तात्मा व्रतमग्रहीत् ॥१२॥ कंसेन तु सुभद्राख्यरसविक्रयिसूनुना । पठतो वसुदेवस्य, मैत्री सौरिपुरेऽभवत् ॥१३।। ततश्चिक्रीडतुः कंस-वसुदेवौ सदैव तौ । मिथश्चैतन्यवत्कायप्रतिच्छायनिभावुभौ ॥१४॥ समुद्रविजयस्योर्वीभृतोऽन्येयुः सभाजुषः । अर्द्धचक्रिजरासन्धराजादेशः समाययौ ॥१५।। अस्मद्वंश्योऽस्ति वैताढ्यतटे सिंहस्थो नृपः । एनं बद्ध्वोद्धतक्रोधं, यः कश्चन समानयेत् ॥१६।। इष्टो दीयेत देशोऽस्मै, तथा जीवयशाः सुता । राजादिष्टं तदित्येतन्मेने मानवपुङ्गवः ॥१७॥ समुद्रविजयाद् राजादेशार्थैकसमर्थधीः । ययाचे स्वयमादेशं, वसुदेवः प्रतिज्ञया ॥१८॥ नरेन्द्रादेशतः कंससारथिः सारसैनिकः । वीरो जगाम वैताढ्यमद्वैताढ्यपराक्रमः ॥१९॥ अथो सिंहरथो यद्धदःसहः सहसाऽभ्यगात् । वसुदेवं प्रति जवात् , किरि: केसरिणं यथा ॥२०।। अथ युद्धप्रबन्धेन, भग्ने सैन्यसमुच्चये । वसुदेवः समं सिंहरथेन युयुधे स्वयम् ॥२१॥ ततः परिघमुद्यम्य, कंसस्तं सहसा द्विषम् । आहत्य वसुदेवस्य, पुरो बद्धमढोकयत् ॥२२।। अथैत्य दैत्यविक्रान्तः, क्रान्तसिंहरथो रयात् ।
समुद्रविजयस्यांही, वसुदेवोऽनमन्मुदा ॥२३।। १. क्रयसू खंता० पाता० ॥ २. शौरि खंता० पाता० ॥
D:\maha-k.pm5\2nd proof