________________
एकादशः सर्गः ॥
इतश्च मथुरापुर्यां, यदुनामा नृपोऽभवत् । बृहद्रथाङ्गजो भूरिभूपान्ते हरिवंशभूः ॥१॥ शूरो जातस्ततः शौरि-सुवीरौ तस्य चाऽऽत्मजौ । शूरः शौरिं नृपं कृत्वा, व्रते प्रववृते कृती ॥२॥ सुवीरं स्वपदे न्यस्य, शौरिः सोदरवत्सलः । स्वयं कुशार्तदेशेषु , चक्रे शौरिपुरं पुरम् ॥३।। शौरेरन्धकवृष्ण्याद्या, बभूवुः किल सूनवः। सुवीरस्य महावीरा, भोजवृष्ण्यादयः पुनः ॥४।। भूपमन्धकवृष्णि तत् , कृत्वा शौरिधराधिपः । सुप्रतिष्ठान्मुनेः प्राप्य, व्रतं निर्वृतिमासदत् ॥५॥ सुवीरस्तनुजं राज्ये, भोजवृष्णि विधाय च । विदधे सिन्धुषु स्वस्मै, सौवीरं नाम पत्तनम् ॥६॥ मथुराम्भोजसूर्यस्य, भोजवृष्णेमहीभुजः । जाग्रदुग्रगुणग्राम, उग्रसेनः सुतोऽभवत् ।।७।। आसन्नन्धकवृष्णेस्तु , सुभद्रायां सुता दश । समुद्रविजयो जिष्णुरक्षोभ्यः क्षोभितद्विषन् ।।८।। स्तिमितः शमितारातिः, सागरः सागरोपमः । हिमवान् हिमवत्कीतिरचलोऽचलनिश्चयः ॥९॥ धरणो धरणीभूषा, पूरणः शत्रुचूरणः । अभिचन्द्रो वितन्द्रात्मा, वसुदेवश्च विश्वजित् ॥१०॥ विशेषकम् ॥
१. सूरो पाता ॥ २. सूरः पाता० ॥