________________
दशमः सर्गः]
तस्मिन्नखण्डितसुखामृतपानपीनः, सोऽयं सुरः स्फुरदनुत्तररूपसम्पत् । हर्षप्रकर्षमयमद्भुतभूरिभाग्यलक्ष्मीमयं च समयं गमयाम्बभूव ॥ ३४६||
॥ इति श्रीविजयसेनसूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीभ्नेमिनाथप्राच्यभववर्णनो नाम दशमः सर्गः समाप्तः ॥
पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः । वाग्देवी मुखसममसूक्तविशदोद्गारादपि प्राञ्जला:, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः ? ॥१॥
॥ ग्रन्थाग्रम् ३५२ । उभयम् ३१४५॥
D:\maha-k.pm5 \ 2nd proof
[ २५३
5
10