________________
[२६१
10
एकादशः सर्गः]
वणिक्पुत्रीयमिति मा, हासी: पृष्टे कुले सति । चरितं श्रव्यमस्त्यस्यास्तमित्यूचे तदा वणिक् ॥८७।। अथ तां परिणीयासौ श्यामाख्य-विजयाह्वये ।
पर्यणैषीद् यशोग्रीव-सुग्रीवतनये अपि ॥८८।। [चारुदत्त-गन्धर्वसेनयोश्चरितम्]
अथ गन्धर्वसेनाया, वृत्तं कथयितुं वणिक् । अपरेयुः समारेभे, वसुदेवं प्रति स्मितः ॥८९।। पुराऽहं जीवतोः पित्रोः, सुभद्रा-भानुसङ्घयोः । अगां सुहृज्जनैः साकं, हेलया सिन्धुरोधसि ॥९०॥ तत्र स्त्री-पुंसयोः पादप्रतिबिम्बानुसारतः । सञ्चरन्नहमद्राक्षं, सतल्पं कदलीगृहम् ॥९१॥ तरुणं तरुणा साकं, कीलितं तत्र दृष्टवान् । ओषधीमूलिकास्तिस्रस्तथा तत्खड्गकोशगाः ॥९२॥ ताभिरप्युपरिन्यस्तपत्रीज्ञानप्रभावतः । निष्कीलमव्रणं मुक्तमूछं च तमहं व्यधाम् ॥९३।। अथोन्मीलितनेत्राब्जः, प्राप्तसञोऽवदत् स माम् । किं निष्कारणबन्धोस्ते, विदधामि किल प्रियम् ? ॥९४।। अहं वैताढ्यकोटीरे, नगरे शिवमन्दिरे । महेन्द्रविक्रमक्ष्मापसुतोऽमितगतिः श्रुतः ॥९५।। सुतां हिरण्यरोमाख्यमातुलस्य तपस्यतः । यथार्थनामानमहं, व्यवहं सुकुमारिकाम् ॥९६।। अभिलाषी मया तस्यां, सखा धूमशिखाभिधः । ज्ञातः स तु न दाक्षिण्यान्मुक्तो मित्रं हि दुस्त्यजम् ॥९७।। सहाऽऽयातेन तत् तेन, च्छलाद् विश्वस्तघातिना । कीलितोऽस्मि द्रुमेऽमुष्मिन् , हृत्वा च दयितां गतः ॥९८॥ तत् तवाहं जीवितव्यदातुर्मातुरिवाधुना । अनृणः करुणासार !, भविष्यामि भवे कथम् ? ॥९९।।
25
D:\maha-k.pm5\2nd proof