________________
5
10
1111
15
20
25
२५० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् §§ अङ्गदेशेषु चम्पायां, जितारिनृपतेः सुता । कीर्तिमत्यामभूद् भूरिपुत्रोपरि यशोमती ॥३१०॥ गुणश्रवणमात्रेण, शङ्खे श्रीषेणनन्दने । अनुरागोऽभवत् तस्याः, सरोजिन्या रवाविव ॥ ३११॥ स्वाजन्याय ततो राजा, श्रीषेणनृपतिं प्रति । विशिष्टं प्रेषयामास, वाक्पीयूषपयोनिधिम् ॥३१२॥ समयेऽस्मिन्निमां बलां, मणिशेखरखेचरः । ज मया सह महस्तिरस्कृतसहस्ररुक् ॥ ३१३॥ अटव्यामिह मुक्ताऽहं निन्ये कन्या तु साऽन्यतः । तस्याः श्रीमन्नहं धात्री, तद्वियोगेन रोदिमि ||३१४|| किंवदन्तीं कुतस्तस्या, लभेयमिति चिन्तयन् । इमामाश्वासयामास, कुमारः काम्यया गिरा ||३१५|| अथ तद्वीक्षणपरे, वीरे शौर्यसखः स्वयम् । पूर्वाशापतिरुष्णांशुं, शैले दीपमिवामुचत् ॥३१६॥ तदटन्नटवीगर्भे, कन्यावीक्षणसत्वरः । शैले विशालशृङ्गाख्ये, कन्दरामन्दिरोदरे ||३१७|| शङ्ख एव मम स्वामी, वदन्तीमिति बालिकाम् । खेटरं चाटुकारं च, सोऽपश्यन्मणिशेखरम् ॥३१८॥ युग्मम् ॥ क्रोधादभिमुखं धावन्, पश्यन् कन्यां च सस्पृहम् । कुमारः खेचरेन्द्रेण, तत्प्रियत्वेन निश्चितः ॥३१९॥ समायातः प्रियोऽयं ते, शङ्ख पश्यैष हन्यते । तां प्रतीति प्रतिज्ञाय, प्रचचाल स खेचरः ॥ ३२०|| तन्निष्कृपकृपाणाग्रसङ्ग्रामेण नृपाङ्गजः । खेचरं विगलद्भासं, दासं चक्रे विजित्य तम् ॥३२१|| स्मित्वा व्यलोकयद् बाला, तं कुमारं जितद्विषम् । प्रभाते परिभूतेन्दुं पद्मिनीव दिवाकरम् ॥३२२॥
१. 'निधिः खंता पाता० ॥ २. स्मिता व्य खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
"