________________
[२५१
10
दशमः सर्गः]
अथ व्योम्नो मनोवेगा, मणिशेखरपत्तयः । पेतुर्नुपसुतोपान्ते, सरसीव सितच्छदाः ॥३२३।। उभौ पुरे च सैन्ये च, प्रैषीद् भूपाङ्गजः खगौ । एकं यशोमतीधात्र्याः, समानयनहेतवे ॥३२४।। निकाममुपरोधेन, कुमार: खेचरेशितुः । प्रणमन् सिद्धचैत्यानि, कन्यया साकमेतया ॥३२५।। आयातः कनकपुरे, विद्याधरपुरे ततः । भूमिभालाभवैताढ्यविशेषककलाभृति ॥३२६।। युग्मम् ।। दिनानि कतिचित् तत्र, तस्थौ भूजानिनन्दनः । खेचरश्रेणिसौजन्यक्षीरनीरेशकेशवः ॥३२७।। अथ तस्मै ददौ पुत्री, खगेशो मणिशेखरः । ददिरे खेचरैरन्यैरपि विद्या निजा निजाः ॥३२८।। अथ विद्याधरैः सर्वैः, परितः परिवारितः । द्विषद्भयादकम्पायां, चम्पायां पुरि यातवान् ॥३२९।। यशोमत्यादिकाः कन्याः, स तत्र परिणीतवान् । रोहिणीप्रभृती: शीतद्युतिर्दाक्षायणीरिव ॥३३०।। विघाटितकपाटोष्ठप्रतोलीमुखनिःसृतैः । सौधांशुभिर्विहसितामिव चम्पां विवेश सः ॥३३१॥ यशोधरो गणधरः, कमारस्य सहोदरौ । सम्मुखौ द्वावपि प्राप्तौ, तौ जीवौ सूर-सोमयोः ॥३३२।। बाहुभ्यामिव बन्धुभ्यां, वाम-दक्षिणपक्षयोः । चतुर्बाहुरिवादर्शि, कुमारो नागरैस्तदा ॥३३३।। अथासौ पितरौ नत्वा, कृतार्थम्मन्यमानसः । बभव विपलप्रीतिवल्लीप्रोल्लासपादपः ॥३३४||
20
१. अथ श्वसुरमापृच्छ्य, परिवारैः समं निजैः । पित्रोरुत्कण्ठितः प्राप, कुमारो हस्तिनापुरम् ॥३३१॥ इतिरूपः श्लोकः खंता० ॥ २. °वौ शशि-सूरयोः वता० ।। ३. °थायं पित° पाता० ॥
D:\maha-k.pm5\2nd proof