________________
[२४९
दशमः सर्गः]
अथ विज्ञापयामास, कुमार: क्षितिवासवम् । अन्तः स्फुरति कोपेऽपि, निर्विकारमुखाकृतिः ॥२९७।। स्वर्गेशो नागतः स्वर्गान्न पातालाद् बलिर्बली । कथमित्थं प्रभो ! पल्लीपतिमात्रे प्रकुप्यसि ? ॥२९८॥ मा कोपीरहमेवामुं , निग्रहीष्यामि हेलया । व्यापारं हि कुठारस्य, नखच्छेद्ये करोति कः ? ॥२९९॥ इत्याकर्ण्य नरेन्द्रेण, समादिष्टः प्रमोदिना । कुमारः शत्रुसंहारहेतवे कटकं व्यधात् ॥३००।। कृत्वा शून्यमथो दुर्गं, कतिचित्पत्तिपालितम् । तस्थौ दूरेण पल्लीशश्छलाय सह सैनिकः ॥३०१।। इति मत्वा कुमारोऽपि, समारोपितसैनिकः । प्रेरितैः पत्तिभिर्दुर्ग, ग्राहयामास कैश्चन ॥३०२।। जगामान्तः समं सैन्यैः, शङ्खोऽयमिति शङ्कया । बलैरनर्गलैर्दुर्ग, पल्लीपतिरवेष्टयत् ॥३०३।। अथ संरुद्धदुर्गं तं, वल्गन्तं विक्रमोर्जितैः । पल्लीशं वेष्टयामास, कुमारः परितो बलैः ॥३०४।। अन्तर्बहिर्बलस्तोमैर्दुर्गान्ते वध्यतां गतम् । मत्वाऽऽत्मानमथो मानममुचत् पक्वणाधिपः ॥३०५॥ मूर्तं मदमषीपिण्डमिवायातं हृदो बहिः । वहन् कण्ठे कुठारं स, कुमारमुनीनीतवान् ॥३०६।। वलमानः सहानेन, वीरोऽथ कटकान्तिके । अर्धमार्गेऽर्धरात्रे स, शुश्राव रुदितं स्त्रियाः ॥३०७॥ अथ शब्दानुसारेण, तां जगाम नृपाङ्गजः । एक: खड्गलतोद्रेकभ्राजिष्णुभुजभूरुहः ॥३०८।। कुमारस्तामथोवाच, किमिदं भीरु ! रुद्यते ? । इति साऽपि तदाकारविश्वस्ता दुःखिताऽवदत् ॥३०९।।
D:\maha-k.pm5\2nd proof