________________
२४८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एतस्यैव द्वितीयेऽह्नि, मरणं परिभावयन् । धिक् ! संसृतिरसारेयमिति सारां धियं दधौ ।।२८४।। इहान्तरे पुरोपान्ते, केवलज्ञानवान् मुनिः । आययौ यः कुमारत्वे, दृष्टः कुण्डपुरे पुरा ॥२८५।। पद्मं प्रीतिमतीपुत्रं, कृत्वा राज्येऽथ पार्थिवः । मुनेस्तस्माद् व्रतं प्राप, सकान्ता-ऽमात्य-बान्धवः ॥२८६।। स तपो निबिडं तप्त्वा, पूर्णायुः सपरिच्छदः । समभूदारणे कल्पे, शक्रसामानिकः सुरः ॥२८७।। जम्बूद्वीपाभिधे द्वीपे, क्षेत्रे भरतनामनि । कुरुदेशशिरोमाल्ये, श्रीहास्तिनपुरे पुरे ॥२८८॥ श्रीषेणनृपतेः पन्यां, श्रीमत्यां शङ्ख इत्यभूत् । जीवोऽपराजितस्याथ, पूर्णेन्दुस्वप्नतः सुतः ॥२८९।। युग्मम् ॥ जीवो विमलबोधस्य, मतिप्रभ इति श्रुतः । आसीद् गुणनिधर्मन्त्रिकिरीटस्याङ्गजो गुणी ॥२९०॥ क्रीडां वितनुतो मित्रीभूय तौ पूर्ववत् ततः ।। यौवनस्य वशं यातौ, वसन्तौ जनचेतसि ॥२९१।। चौर्यदावाग्निदग्धाङ्गः, सीमादेशजनोऽन्यदा । आगत्य क्षितिनेतारं, विजेतारं व्यजिज्ञपत् ॥२९२॥ विशालशृङ्गः स गिरिः, सा चन्द्रशिशिरा नदी । दुर्गेऽस्मिन् दुर्ग्रहः पल्लीपतिः समरकेतनः ॥२९३।। हरत्येव सदेशस्थः, स देशस्य श्रिय सदा । दोषा दोषाकरोऽम्भोजवनस्येव समापतन् ॥२९४॥ गिरं जनपदस्येति, दुःखदाहसगद्गदाम् । समाकर्ष्याभवद् भूपः, कोपवह्निहसन्तिका ॥२९५।। कटकाय कटुस्वान्तः, समारम्भं विभावयन् ।
आदिदेश नृपः पत्ति-द्विप-वाह-रथाधिपान् ।।२९६।। १. निधिर्म° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof