________________
[२४७
दशमः सर्गः]
मित्रेण मन्त्रिणा धात्रीश्वरैर्विद्याधरैश्च तैः । ऋक्षैरिव तुषारांशुः, कुमारः परिवारितः ॥२७१।। कम्पिनी सैन्यचारेण, स्विन्नां गजमदाम्बुभिः । भेजे निजपुरीमेष, दयितामनुरागिणीम् ॥२७२।। बभौ पितरमालोक्य, वृक्षोऽम्बुदमिवाथ सः । प्रीतः प्रेक्ष्य च तं राजा, राजानमिव वारिधिः ॥२७३।। रोमाञ्चमेचकश्रीकः, प्रसरद्भुजपक्षतिः । पितृपादाम्बुजोत्सङ्गे, वीरो भृङ्ग इवापतत् ॥२७४।। अथो कुमारमुत्थाप्य, बाहुभ्यां प्रीतिविह्वलः । राजा हृदि दधौ मूनि, वर्षन् हर्षाश्रुबिन्दुभिः ॥२७५॥ अथोद्दधार नो मौलिं, न्यस्य मातृपदद्वये । नखोष्णीषमणीनां तु , रश्मिभिर्ग्रथितं मिथः ॥२७६।। मात्रा कथञ्चिदुत्थाप्य, मुदा मूर्धनि चुम्बितः । कुमारः शैशवसुखं, सस्मार सुरदुर्लभम् ॥२७७॥ तौ मनोगति-चपलगतिजीवौ प्रणेमतुः ।। सोदरौ सूर-सोमाख्यौ, कुमारस्य पदद्वयम् ॥२७८।। समर्थमथ मत्वा तं, निधाय स्वपदे सुतम् । व्रतं विश्वस्तहरिणं, हरिणन्दी मुदा दधौ ॥२७९।। तपस्तपनविस्तारध्वस्तकर्मतमस्ततिः । हरिणन्दीमुनिपतिस्तत् प्राप परमं पदम् ॥२८०॥ महिषीपदविद्योतमानप्रीतिमतीयुतः । शशास सूर-सोमाभ्यां, सहोर्वीमपराजितः ॥२८१।। मित्रं विमलबोधोऽपि, तस्य मन्त्रिपदेऽभवत् । दीप्ततेज:प्रदीपैकसदनं सदनन्तधीः ॥२८२॥ कुर्वन्नुर्वीपतिस्तीर्थ-रथयात्रामहोत्सवम् ।
ददर्शाऽनङ्गदेवाख्यमिभ्यमुद्भिन्नयौवनम् ।।२८३॥ १. “तिस्तत्र, रथ° खंता० ॥
D:\maha-k.pm5\2nd proof