________________
5
10
151
20
२४६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
को दुःखीति तय प्रोक्तं, स्पृहा यस्येति साऽब्रवीत् । तयोक्तं को धनी ? यस्य, सुकृतानीत्युवाच सा ॥२५९॥ इति प्रश्नोत्तरगिरा, पाञ्चाल्या विजिता सती । मुदा कण्ठे कुमारस्य, बाला मालामयोजयत् ॥ २६०॥ अथ पृथ्वीभृतः सर्वे, कुमारं प्रति कोपिनः । सममेव समीकायानीकिनी: समनीनहन् ॥२६१॥ बलानि बलवान् राज्ञां तानि जित्वा नृपात्मजः । भूपैः प्रत्येकमेकाकी, सार्द्धं युद्धविधिं दधौ ॥२६२॥ हेलयैव महीपालानन्यान् निर्जित्य भूपभूः । केसरीव समारूढः, सोमप्रभनृपद्विपम् ||२६३॥ स्वस्त्रीयो मातुलेनायां, विस्फुरन्नपराजितः । राज्ञा सोमप्रभेणाथ, लक्षणैरुपलक्षितः ॥ २६४॥ गलदश्रुजलो वीरमथ सोमप्रभो नृपः । भागिनेयं महाहर्षपूरितः परिरब्धवान् ॥२६५॥ हरिणन्दितनूजं मे, जामेयमपराजितम् । अमुं जानीथ भूपानामिति सोमप्रभोऽदिशत् ॥२६६॥ जग्मुः स्वाजन्यमुर्वीशाः, सर्वेऽपीति प्रमोदिनः । मध्ये भूत्वा कुमारस्तैः, सोत्साहैश्च विवाहितः ॥२६७॥ अथ सम्मानिता राज्ञा, सर्वेऽपि जितशत्रुणा । ययुर्निजनिजं स्थानं, नृपा सोमप्रभादयः ॥२६८|| ततस्तत्र स्थितं श्रुत्वा, कुमारमपराजितम् । आययौ पैतृको मन्त्री, समाकारयितुं रयात् ॥ २६९॥ सर्वेऽपि परिणीतस्त्रीपितरोऽपि तमाययुः । सरिदोघा इवाम्भोधि, विद्याधरधराधिपाः ॥२७०॥
१. या पृष्टं, स्पृ° खंता० ॥ २. °किनीं सम खंता० ॥ ३ ° भोऽवदत् खंता० ॥ ४. सर्वे प्रीतिप्रमो° खंता० ॥ ५ तं मत्वा, खंता० ॥
D:\maha-k.pm5\ 2nd proof