________________
10
दशमः सर्गः]
[२४५ भूपः कुबेरनामाऽयं, सख्युर्मुखमवेक्षते । उत्तीर्णो भुवि चेतोभूर्दिवः शिवभयादिव ॥२४६।। अयं सोमप्रभो राजा, करोद्यत्केलिकन्दुकः । प्रविष्टो हृदि नारीणां, स्यादसावेव मन्मथः ॥२४७।। भूपः सूराभिधः सोऽयं, लीलानलारविन्दवान् । अमुं भेजे रतिनित्यं, प्रियेऽनङ्गे तदाशया ॥२४८।। भीमः श्रीमानसौ राजा, कुण्डले कुरुते करम् । स्मरं रतिरतं मत्वा, यं प्रीतिस्तद्वदाश्रिता ॥२४९।। माधवो धवलः सोऽयं, स्मेरनीलाश्मशेखरः । यत्कान्तिकिङ्करः कामो, भुवनेषु विजृम्भते ॥२५०।। इति ज्ञात्वा प्रतीहारीवचनेन नृपानिमान् । क्रमेण प्रष्टुमारेभे, कन्या विद्यासु कौशलम् ॥२५१॥ अथ जित्वा कुमारी, ताननुप्रश्नं निरुत्तरान् । वरं नरेभ्यो नारीति, ज्ञात्वा प्रीतिपराऽभवत् ।।२५२।। तामथ व्यथमानात्मा, कुमारो जितकाशिनीम् । तयैव मञ्चपाञ्चाल्या, मणिस्पर्शादवीवदत् ॥२५३।। चमत्कारकरी पुंसां, प्राह पाञ्चालिका ततः । आक्षिप्य मापतेः पुत्री, मूर्तमानभृता गिरा ॥२५४॥ किमु गर्जसि वामाक्षि ! विजित्य नृपशून् नृपान् ? । न किं जानासि मामत्र, पुरः स्फुरतिकौतुकाम् ? ॥२५५।। भवत्या यदि जीयेऽहं, तद् गुरुर्लज्जते मम । मन्मौलौ न्यस्तहस्तोऽयं, हरिणन्दिनृपात्मजः ॥२५६।। चमत्कृतेति पाञ्चालीवाचा सा चारुलोचना । शारदेव स्वयं वादसादरा मुदमुद्दधौ ।।२५७।। कन्या पप्रच्छ कः शूरो ?, जितात्मेति जगाद सा ।
को दक्षः ? साऽवदत् प्रोक्तं, तया श्रीभिरवञ्चितः ॥२५८॥ १. तुकम् खंता० ॥
20
25
D:\maha-k.pm5\2nd proof