________________
5
10
151
20
25
२४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विधाय गुलिकायोगादन्यं वेषमुभौ ततः । मूले मञ्चस्य कस्यापि, स्थितावुत्तालकौतुकौ ॥२३३॥ कस्याश्चिन्मञ्चपाञ्चाल्या, मूर्ध्नि न्यस्तकराम्बुजः । कुमारस्तस्थिवान् पश्यन् भूभुजस्तृणवत् तदा ॥२३४॥ अथ रङ्गपथक्रोडं, प्राप प्रीतिमती तदा । पुरोवर्तिप्रतिहारीप्रथिताग्रपथान्तरा ॥ २३५॥ समालोक्य समायान्तीमथ ते पृथिवीभृतः । चेष्टान्तराणि तत्कालं चक्रिरे चलचेतसः ॥ २३६॥ परिभ्राम्यति लीलाब्जे, चक्षुश्चिक्षेप कश्चन । इह तद्वक्त्रशोभाऽस्ति, न वेतीव विलोकयन् ॥२३७|| अङ्गुलिभ्यां भ्रमयतः, करात् कस्यापि चम्पकम् । क्षितौ पपात तत्कान्तिविजितं नु ! विलज्जितम् ॥२३८॥ विमलं केतकीपत्रं, नखैः कश्चिददारयत् । तदीयदशनोन्मीलन्मयूखश्रीमलिम्लुचम् ॥२३९॥ तदीयाङ्गपरिष्वङ्गतिरोधानविधायिनम् । कश्चिदभ्रमयत् पाणेराक्रष्टुमिव कङ्कणम् ॥२४०॥ जगतीपतिषु स्पष्टमिति तेषु विलासिषु । पुरः प्राह प्रतीहारी, मुदा प्रीतिमतीं प्रति ॥ २४१॥ एते देवि ! मुदे विश्वविजयोज्ज्वलविक्रमाः । आजग्मुस्त्वत्कृते भूपाः, स्मररूपा गुणाब्धयः ॥२४२॥ यः कश्चित् ते मुदं चित्ते, दत्तेऽमीषु विशेषतः । वृणु तं भाग्यसौभाग्यप्रसादसदनं नृपम् ॥२४३॥
असौ मौक्तिकताडङ्कहंसोत्तंसमुखाम्बुजः । राजा भुवनचन्द्राख्यः, शौर्य - धैर्य-धियां निधिः ॥२४४॥ अयं हाराङ्कितग्रीवो, राजा समरकेतनः । स्मरे हरभयोद्भ्रान्ते, रूप श्रीरमुमाश्रिता ॥२४५॥
D:\maha-k.pm5\ 2nd proof