________________
[२४३
दशमः सर्गः]
हरिणन्दितनूजोऽयमिति मत्वाऽथ भूभुजा । रम्भानाम्नः स्वनन्दन्याः, प्रदानेनैव सत्कृतः ॥२२०।। तत्रैव तामपि त्यक्त्वा, पुनः प्रचलिताविमौ । कञ्चित् केवलिनं वीक्ष्य, पुरे कुण्डपुरे स्थितौ ॥२२१॥ नत्वा केवलिनं भक्तिभावितः सुहृदा सह । अपराजितवीरोऽयं, निविष्ट: क्षितिविष्टरे ॥२२२। पप्रच्छ स्वच्छधी विशुभा-ऽशुभमथाऽऽत्मनः । मित्रस्य च स्वकीयस्य, मेदिनीनाथनन्दनः ॥२२३।। द्वाविंशस्तीर्थकृद् भावी, नेमिस्त्वं पञ्चमे भवे । अयं सुहृच्च प्रथमो, गणभृत् ते भविष्यति ॥२२४।। वाचं सम्यग् निशम्येति, प्रथितां मुनिनाऽमुना । स प्राप प्रमदं भाविमुक्त्यानन्दानुवादिनम् ॥२२५।। मुनौ कृतविहारेऽथ, केवलज्ञानभास्करे ।
तौ कुतूहलिनौ देशान् , द्रष्टुमभ्रमतां पुनः ॥२२६।। $$ इतश्चास्ति जनानन्दे, लङ्काशङ्काकरे पुरे ।
जितशत्रुर्धरित्रीशो, धारिणी चास्य वल्लभा ॥२२७।। सोऽपि रत्नवतीजीवश्च्युत्वा माहेन्द्रकल्पतः । देव्याः कुक्षिसरोहंसी, जज्ञे प्रीतिमती सुता ॥२२८।। अथासौ यौवनं प्राप्ता, प्रतिज्ञामिति निर्ममे । विद्यया मां विजेता य, स मे भर्ता भविष्यति ॥२२९।। स्वयंवरार्थमुर्वीशस्ततो निर्माय मण्डपम् । पञ्चेषुरोचिषो भूरीनमीमिलदिलाधिपान् ॥२३०।। सपाञ्चालीप्रपञ्चेषु , ते मञ्चेषु निषादिनः । किरन्ति रागं प्रत्यङ्गं, भूषामणिविभानिभान् ॥२३१।। अत्रान्तरे नरेशस्य, सचिवस्य च तौ सुतौ ।
पश्यन्तौ काश्यपीखण्डमखण्डस्मयमीयतुः ॥२३२॥ १. र्धराधीशो, खंता० ॥
D:\maha-k.pm5\2nd proof