________________
२४२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कुतोऽपि तोयमादाय, यावत् सोऽयमुपागतः । तावदाम्रतरोर्मूले, न पश्यति नृपाङ्गजम् ॥२०७।। असावसोढा तन्मित्रविरहं निरहङ्कृतिः । चिरं बभ्राम कान्तारे, यूथभ्रष्ट इव द्विपः ॥२०८।। अथ भ्रमन् गतो नन्दिपुरोपान्तसुरालये । एत्य खेचरयुग्मेन, स प्रोचे दुःखदुर्मनाः ॥२०९।। आकारयति मित्रं ते, भूपभूरपराजितः । तदा चापहृतः सोऽयमावाभ्यां विपिनान्तरात् ॥२१०।। प्रभुः कमलभानुनौ, हारयामास खेचरः । कुमुदिन्याः कृते पुत्र्याः, कमलिन्याश्च तं यतः ॥२११।। अयमेवानयोर्बाल्ये, न्यवेदि ज्ञानिना वरः । प्रभुणा निर्मिते सोऽस्ति, प्रासादे त्वद्विनाऽदितः ॥२१२।। विवाहेऽपि निरुत्साहः, स भवन्तं विनाऽभवत् । तदेहि देहि तस्याद्य, मुदमब्धेरिवोडुपः ॥२१३।। इत्याकर्ण्य हृदि प्रीतः, स ताभ्यां सह जग्मिवान् ।
तत्प्राप्तिमुदित: कन्ये, वीर: पर्यणयच्च ते ॥२१४।। $अथ श्रीमन्दिरपुरे, तौ गत्वा सत्त्वदुःसहौ । स्थितौ कामलतानाम्न्या, वारनार्या निकेतने ॥२१५।। पुरेऽस्मिन्नेकदा कश्चिदभूत् कोलाहलो महान् । रथघण्टापथत्यागव्याकुलार्कतुरङ्गमः ॥२१६।। तत् परम्परया ज्ञात्वा, निहतं घातकैर्नृपम् । वेश्यायै मन्त्रिसूराख्यदथ सज्जीवनौषधम् ॥२१७।। तद् भूभृन्मन्त्रिणे तूर्णं, वेश्ययाऽपि निवेदितम् । अयं मद्गृहवास्तव्यः, किञ्चिद् वेत्ति महौषधम् ॥२१८।। मन्त्रिणा भक्तिभुग्नेन, तत् तदाऽऽकारिताविमौ । औषधेन धराधीशं, क्षणाच्चक्रतुरक्षतम् ॥२१९।।
D:\maha-k.pm5\2nd proof