________________
२४०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ देशान्तरालोककौतुकायत्तचेतसौ । निशि निःसृत्य मन्त्रीश-धात्रीशतनुजौ गतौ ॥१८०।। अथ तौ कानने क्वापि, कामिन्याः करुणारवम् । आकर्ण्य कालिकादेव्या, मन्दिरे जग्मतुर्जवात् ॥१८१॥ समीपे वह्निकुण्डस्य, रुदती कामपि स्त्रियम् । वीरो व्यलोकयत् तत्र, कान्तां केनापि खड्गिना ॥१८२।। अथ तं प्रथितोत्साहः, कुमारः प्राह खड्गिनम् । न वेत्सि क्रूर ! रे ! भूमि, मया सस्वामिकामिति ॥१८३॥ विद्यते यदि ते शक्तिर्विधेहि प्रधनं ततः । इत्याकर्ण्य द्रुतं सोऽपि, चलितः कलितः क्रुधा ॥१८४॥ समुल्लासितनिस्त्रिंशौ, रणाय स्फुरितौ ततः । एतावुत्पाटितोद्दण्डशुण्डादण्डाविव द्विपौ ॥१८५।। खड्गेन धारया धारां, वारयन्तौ मुहुमिथः । युयुधातेतरामेतौ, दन्ताभ्यामिव दन्तिनौ ॥१८६।। तमजेयतमं मत्वा, कुमारमसिना पुरः । क्रीडया पीडयामास, नागपाशप्रबन्धतः ॥१८७।। वल्लीबन्धानिव गजः, स जगत्कौतुकप्रदः । नृपसूनुर्बलेनैव, नागपाशानतुत्रुटत् ॥१८८॥ लोचने वञ्चयित्वाऽथ, कुमारेण रणाङ्गणे । कालिन्दीस्रोतसेव द्रुररातिः पातितोऽसिना ॥१८९।। मूर्छा निमीलयामास, तस्येन्द्रियगणं ततः । समुल्लसत्तमःस्तोमा, पद्मखण्डमिव क्षपा ॥१९०॥ अथ पानीयमानीय, तं निषिच्य नृपाङ्गजः । चलच्चेलाञ्चलोन्मीलन्मारुतैरुदजीवयत् ॥१९१।। सम्प्रीतः सोऽपि मूर्छान्ते, भूपसूनुमभाषत । विघृष्य मूलिकामेतां, लेपं घातेषु देहि मे ॥१९२।। श्रुत्वेति भूपपुत्रोऽपि, चक्रे तस्य वचः क्षणात् ।
नीरे रेखेव तत्खड़गक्षतिदेहे तदाऽमिलत ॥१९३।। १. चनं व खंता० ॥
15
25
D:\maha-k.pm5\2nd proof