________________
दशमः सर्गः]
[२३९
ततः समं कुमारेण, वधवारणकारिणा । तदाऽऽरक्षकसैन्यं तत् , प्रारेभे युद्धमुद्धतम् ॥१६७।। करवालः कुमारस्य, ततो दलयतो रणे । बलस्यास्य प्रभावाब्धिमगस्तिरिव पीतवान् ॥१६८।। अथ ते व्यथितास्तेन, कुमारेणोद्भटा भटाः ।। आशु विज्ञापयामासुर्वलित्वा भूभुजं निजम् ॥१६९।। तदाऽऽरक्षप्रतिक्षेपोद्दीप्रकोपः स भूपतिः । सनाथां दण्डनाथेन, प्राहिणोदसमां चमूम् ॥१७०।। खड्गलेखा कुमारस्यावलेपजलधेस्ततः । इमां पराङ्मुखीचक्रे, वाहिनीमतुलत्वराम् ॥१७१।। अथ स्वयमयं राजा, समारुह्य मतङ्गजम् । सङ्ग्रामाय समारेभे, संरम्भं क्रोधदुर्धरः ॥१७२।। मन्त्रिपुत्रं कुमारोऽपि, व्यापार्य नररक्षणे । आरुरोह रणायोग्रमभिमानमतङ्गजम ॥१७३।। नृपाङ्गजभुजेनाभादसिलेखा विकम्पिता । शिखेव मुक्ता वातास्ता, विरोधिवधसन्धया ॥१७४।। तद्भुजस्य यमस्येव, रोमाञ्चैर्मेचकद्युतेः । संहरन्ती रिपून् कृष्टा, जिह्वेवासिलता बभौ ॥१७५।। मनो मन्त्री भुजे मित्रं, मानो धनमसिर्बलम् । इति वीरो विजग्राह, स युक्तं सह भूभुजा ॥१७६।। भग्ने सैन्ये प्रणिधितो, ज्ञात्वा तं नृपनन्दनम् । रणं निर्मुच्य पप्रच्छ, कुशलं कोशलेश्वरः ॥१७७|| पितृमित्रं कुमारोऽपि, तं मत्वा मन्त्रिणो गिरा । नमश्चकार तत्कालाहङ्कारभ्रंशभासुरः ॥१७८।। सुता कनकमालाऽस्मै, कुमाराय महीभुजा ।
दत्ता प्रमथनाथाय, पार्वतीव हिमाद्रिणा ॥१७९।। १. °द्धमद्भुतम् खंता० ॥ २. तं मित्रनन्द खंता ॥
D:\maha-k.pm5\2nd proof