________________
२३६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ चित्रगतिर्मायातम:श्यामलिताम्बरः । राज्ञः कृपाणमाच्छिद्य, गृहीत्वा मित्रसोदराम् ॥१२८।। गत्वा चक्रपुरे तूर्णं, सुमित्रस्य समर्प्य च । आजगाम स वैताढ्यं, पूर्वादिमिव भानुमान् ॥१२९॥ युग्मम् ॥ प्रौढपुत्रः सुमित्रोऽपि, विरक्तः संसृतौ कृती । व्रतमासाद्य जैनेन्द्रं, विचचार चिरं क्षितौ ॥१३०।। आखेटकगतेनायमथ पद्मन बन्धुना । पूर्वविद्वेषतः शल्यहतो निपतितः क्षितौ ॥१३१॥ असावनन्तसंसारी, मत्तो भवति बान्धवः । शोचन्नेवं स्वमात्मानं, विपन्नः स महामुनिः ॥१३२।। बभूव ब्रह्मलोकेऽसौ, शक्रसामानिकः सुरः । अगण्यपुण्यनैपुण्यपण्याद्वैतनिकेतनम् ॥१३३।। दुष्टाहिदष्टः पद्मोऽपि, सप्तमं नरकं ययौ ।
मन्येऽसौ चरणे धृत्वा, कृष्टः कालेन कौतुकात् ॥१३४।। हु एकदाऽगमदानन्दी, नन्दीश्वरवरं प्रति । विद्याधरगणो बिभ्रदहम्पूर्विकया त्वराम् ॥१३५॥ अथापूज्यन्त निःशेषगीतवाद्यादिकौतुकैः । विद्याधरकदम्बेन, भक्तिविभ्राजिना जिनाः ॥१३६।। कैः पुण्यैः पदमीदृक्षं, दु:खत्रासदमासदम् ? । इदमत्रान्तरे दध्यौ, सुमित्रः स्वर्गितां गतः ॥१३७।। इति चिन्तयतश्चित्ते, मित्रं चित्रगतिः कृती । अतिप्रेम्णाऽवदातस्य, तदा तस्य स्मृतिं गतः ॥१३८।। नन्दीश्वरे स तं वीक्ष्य, कुर्वाणं जिनपूजनम् । आगाद् वेगेन तत्रैव, मित्रस्नेहेन मोहितः ॥१३९।। विद्याधरेषु शृण्वत्सु , स देवः कुर्वतः स्तुतिम् । मूनि चित्रगतेर्हृष्टः, पुष्पवृष्टिं विसृष्टवान् ॥१४०।।
D:\maha-k.pm5\2nd proof