________________
[२३५
दशमः सर्गः]
अन्येषुः सुयशा नाम, केवली प्राप तत् पुरम् । जगाम तं नमस्कर्तुं , सुग्रीवः सह बान्धवैः ॥११५।। तं प्रणम्योपविश्याथ, देशनान्ते विशाम्पतिः । पप्रच्छ क्व नु सा भद्रा, परित्रस्य ययाविति ? ॥११६।। सा नश्यन्ती हृता चौरैविक्रीता वणिजो गृहे । नष्टा ततोऽपि दावाग्निदग्धा दुर्गतिमभ्यगात् ॥११७|| अतिशोच्यमनन्तं सा, संसारं विचरिष्यति । इत्थं स कथयामास, केवली नृपतिं प्रति ॥११८॥ तदाकर्ण्य नृपो दध्यौ, यत्कृते साऽकृतेदृशम् । सोऽस्त्यत्र नरके सा तु , गता वत्सलता हहा ! ॥११९।। इत्थं खिन्नः सुमित्राय, दत्त्वा राज्यं भुवो विभुः । कञ्चिद् देशं च पद्माय, निर्मायो व्रतमग्रहीत् ॥१२०॥ ततः सुमित्रधात्रीशमापृच्छ्य कथमप्यमुम् ।
गतश्चित्रगतिस्तेन, सत्कृतो नगरं निजम ॥१२१।। $ इतो रत्नवतीभ्राता, कमलोऽनङ्गसेनभूः ।
सुमित्रभगिनीं कूटात् , कलिङ्गस्याहरत् प्रियाम् ॥१२२॥ स्वमित्रस्य सुमित्रस्य, तामानेतुं सहोदराम् । वेगाच्चित्रगतिः प्राप, नगरं शिवमन्दिरम् ॥१२३॥ तं स्वमित्रस्वसर्दीनवक्त्रायाश्चाटकारिणम । उद्यानेऽत्रासयच्चित्रगतिः कमलमाकुलम् ॥१२४।। कोपादनङ्गसेनोऽपि, पुत्राभिभवसम्भवात् । योg चित्रगतिं सैन्यैरदैन्यैर्निरगात् पुरात् ॥१२५।। उद्यन्महा: सहानेन, चक्रे चित्रगतियुधम् । क्रमभ्रष्टाखिलास्त्रेण, वैलक्ष्यमुपगच्छता ॥१२६।। अनङ्गसेनभूपालः, खड्गरत्नमथास्मरत् ।
यो मुद्धरधैर्योऽसौ, समं सूनुविरोधिना ॥१२७।। १. युग्मम् खंता० ॥ २. सुमि° खंता० ॥
D:\maha-k.pm5\2nd proof