________________
२३४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रभुरत्रास्ति सुग्रीवः, प्रग्रीवः क्षितिपश्रियः । प्रिये यशोमती-भद्रे, तस्य ख्याते उभे शुभे ॥१०२॥ सुमित्रः सूनुरेकस्या, जगन्मित्रमजायत । द्वितीयस्याः पुनः पद्मश्छद्मनः सद्म जङ्गमम् ॥१०३॥ जीवत्यस्मिन् न मे सूनो वि भूपालवैभवम् । भद्रेति सुचरित्राय, सुमित्राय विषं ददौ ॥१०४।। विषे ध्वान्त इवोदीर्णे, चरितैः श्यामया तया । सुमित्रो व्यसनं प्रापच्चित्रं पद्मे ननु स्मितम् ॥१०५॥ म्लानिं गते सुमित्रेऽस्मिन् , मित्रवत् तेजसां निधौ । युक्तं चक्रपुरस्यास्य, दुःखं दुःसहतां गतम् ॥१०६।। इति चित्रगतिः श्रुत्वा, तमुज्जीवयितुं जवात् । परोपकारव्यसनी, विवेश नृपवेश्मनि ॥१०७।। स मन्त्राम्भः सुमित्राङ्गे, बन्धुदृग्भिः सहाक्षिपत् । स्मितं चक्षुः सुमित्रस्य, तद्बान्धवमुखैः समम् ॥१०८॥ पुनरुज्जीविते जाते, सुमित्रे नेत्रपात्रताम् । दुःखबाष्पाम्बु बन्धूनां, प्रमोदाश्रुपदं ययौ ॥१०९।। अथ सोमे सुमित्रेऽस्मिस्तापं हरति देहिनाम् । पद्मे सङ्कचिते भद्रा, भृङ्गीव क्वचिदप्यगात् ॥११०।। अथ जीवितदातारं, तदा तारं यशोभरैः । तं विद्याधरमानन्दी, ववन्दे नपनन्दनः ॥१११।। ततः पितृभ्यां पादान्तप्रणतः स्नपितः सुतः । नेत्रकुम्भमुखोद्गीर्णैरानन्दाश्रुजलप्लवैः ॥११२।। विद्याधरकुमारोऽपि, ताभ्यामालिङ्गय निर्भरम् । अनिच्छन्नपि सच्चक्रे, वसना-ऽऽभरणादिभिः ॥११३॥ स्नेहादप्रेषितेनाथ, स चित्रगतिना सह । सुमित्रः कुरुते क्रीडां, विष्णुनेव पुरन्दरः ॥११४॥
D:\maha-k.pm5\2nd proof