________________
दशमः सर्गः]
[२३३ किञ्चात्रैव गिरौ व्याप्तव्योम्नि वैताढ्यनामनि । दक्षिणश्रेणिकोटीरे, नगरे शिवमन्दिरे ॥८९॥ अनङ्गसेनसञ्जस्य, मेदिनीहृदयेशितुः । पत्न्यां शशिप्रभानाम्न्यां, शशिप्रभमुखत्विषि ॥९०|| च्युत्वा धनवतीजीवः, सोऽपि सौधर्मतस्ततः । धाम्ना रत्नवतीवाभून्नाम्ना रत्नवती सुता ॥९१।। विशेषकम् ॥ कलाकलापकुशलां, क्रमादाक्रान्तयौवनाम् । उत्सङ्गसङ्गिनीमेनां, विधाय वसुधाधवः ॥१२॥ पङ्कजिन्या इवामुष्याः, कः स्यादर्क इव प्रियः ? । दैवज्ञमित्यभाषिष्ट, निविष्टं विष्टरे पुरः ॥९३।। युग्मम् ।। अथागद्यत सद्यस्कज्ञानामृतभृताऽमुना । अगाधज्योतिषग्रन्थसिन्धुमन्थानभूभृता ॥९४|| प्रौढप्रधनपाथोधितरणैकतरण्डकम् । रणे कृपाणामाच्छिद्य, यस्ते हस्ते ग्रहीष्यति ॥९५।। श्रीसिद्धायतने यस्य, मूर्धनि स्वधुनीनिभा । स्तुतिं प्रस्तुवतो दिव्या, पुष्पवृष्टिर्भविष्यति ॥९६।। स व भवितैतस्याः, श्रीपतिप्रतिमः पतिः । शुद्धपक्षद्वयो हंस्या, राजहंस इवामलः ॥९७॥ विशेषकम् ।। इत्याकर्ण्य कृतप्रीतिः, स खेचरशिरोमणिः ।
प्रैषीज्ज्योतिषिकाग्रण्यं, प्रीणयित्वा विभूतिभिः ॥९८॥ ६६ कदाचिद् भरतक्षेत्रे, व्योम्ना चित्रगतिश्चरन् ।
आर्तं किञ्चित् पुरं वीक्ष्य, मङ्ख्त्तीर्णो भुवं दिवः ॥९९॥ तत्र भद्राकृति कञ्चिदपृच्छत् खेचरो नरम् । केयं पुरी ? नृपः कोऽस्यां ?, दुःखं किमिदमप्यहो ! ? ॥१००।। ज्ञाताशेषकथो वाचमथोवाच स पूरुषः । अलङ्कृतमहीचक्रमिदं चक्रपुरं पुरम् ॥१०१।।
D:\maha-k.pm5\2nd proof