________________
२३२]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रुत्वेति प्रीतिमान् भूपो, मुनिं नत्वा पुरं गतः । वाहव्यूहखुरोद्भूतधूलिधूसरवासरः ॥७६।। से कुमारोऽन्यदा केलिशाली गत्वा वनावनौ । चिरं चिक्रीड सखिभिः, कलभैरिव कुञ्जरः ॥७७॥ अथाऽपश्यदसौ कञ्चिद् , भूमौ निपतितं मुनिम् । निरालम्बवियभ्रान्तिखिन्नं रविमिवाचिरात् ॥७८।। आश्वास्य चन्दनाम्भोभिरनिलैश्चानुलोमिकैः । चक्रे कुमारः सच्छायं, मुनि धर्मद्रुमोपमम् ॥७९।। उत्तारितः कुमारेण, विपदम्भोनिधेर्मुनिः । तमुत्तारयितुं सोऽपि, तत् प्रारेभे भवान्तरात् ॥८०।। तत्कालं च समारोप्य, तच्चित्ते वाक्सुधारसैः । सम्यक्त्वपादपस्तेन, शतशाखो व्यतन्यत ॥८१॥ कुमारस्योपरोधेन, स्थित्वाऽथ स्तोकवासरान् । कृतावद्यपरीहारो, विहारं विदधे मुनिः ॥८२॥ बन्धुना धनदेवेन, धनदत्तेन चान्वितः । सवधूको धनोऽन्येधुव्रतं प्राप वसुन्धरात् ॥८३।। तप्त्वा तपांसि भूयांसि, क्षीणायुःकर्मबन्धनाः ।
सौधर्मकल्पे सर्वेऽपि, श्रायसीं श्रियमाश्रयन् ।।८४।। ६६ अत्रैव भरतक्षेत्रे, वैताढ्यगिरिमूर्धनि ।
उत्तरश्रेणिरोचिष्णुसूरतेजोऽभिधे पुरे ॥८५।। अरातिध्वान्तसूरस्य, सूरस्य पृथिवीपतेः । विद्युन्मत्यभिधानाया, देव्याः कुक्षिसरोरुहे ॥८६॥ जीवो धनकुमारस्य, पुण्याविष्टस्त्रिविष्टपात् । जातश्चित्रगतिर्नाम, हंसचित्रगतिः सुतः ॥८७॥ विशेषकम् ॥ विद्यावैदग्ध्यदुग्धाब्धिकेलिकल्लोलितैरयम् ।
विद्याधराणामानन्दकन्दं कन्दलितं व्यधात् ।।८८।। १. कुमारोऽप्यन्यदा पाता० ॥ २. °वार्णवात् खंता० पाता० ॥ ३. °लं स समा पाता० ॥
15
20
25
D:\maha-k.pm5\2nd proof