________________
दशमः सर्गः]
[२३१ अद्भुतं वाद्यमानेषु , मृदङ्गेषु मुहुर्मुहुः । अम्भोधरध्वनिभ्रान्त्या, नृत्याकुलकलापिषु ॥६३॥ कुमारी च कुमारश्च, योजयित्वा कराम्बुजे । ततः पुरोधसा वह्न:, कारितौ तौ प्रदक्षिणाम् ॥६४॥ पञ्चभिः कुलकम् ।। आसीदश्रु न चित्राय, होमधूमे विसर्पति । तदाऽऽसन्ने तयोर्वह्नौ, कम्पो विस्मयभूरभूत् ॥६५।। परस्परं तयोः पाणिस्पर्शे पीयूषवर्षिणि । अमुञ्चदङ्करान् क्षेत्रे, शृङ्गार: पुलकच्छलात् ॥६६।। सर्वाङ्गपूर्णयोः कामरसेन भृशमेतयोः । पाणिपीडनतः स्वेदच्छलात् किञ्चिद् बहिः स्थितम् ॥६७॥ तदा कुमारवक्वेन्दुः, कोऽप्यपूर्वः स्मयं दधौ । कुमारीवदनाम्भोजसमुल्लासनलासकः ॥६८।। नमश्चक्रे क्रमेणाथ, गुरुवर्ग नृपाङ्गजः । तया दयितया साकं, बद्धाञ्चलविलग्नया ॥६९।। कतिचिद् वासरांस्तत्र, स्थित्वा नृपतिनन्दनः ।
प्रयातः स्वपुरीं रेमे, समं वनितया तया ॥७०॥ ६६ मुनिर्वसुन्धरो नाम, पवित्रितवसुन्धरः ।
अन्येधुराजगामात्र, चतुर्ज्ञानधरः पुरे ॥७१॥ नमस्कर्तुममुं राजा, कुमारेण समं ततः । ययौ पुरवनीखण्डमखण्डगुरुभक्तिकः ॥७२॥ मुदा वसुन्धराधीशो, वसुन्धरमुनीश्वरम् । प्रणम्य पादपीठाग्रे, क्षितिपीठे निविष्टवान् ॥७३।। नवस्थानरसालद्रुन्यासस्वप्नविचारणाम् । अपृच्छत् पृथिवीभर्ता, प्रेयसीप्रेरितस्ततः ॥७४।। सर्वज्ञं मनसा पृष्ट्वा, समाचष्ट मुनीश्वरः ।
कुमारोऽयं जिनो भूत्वा, फलिता नवमे भवे ॥७५।। १. लालसः खंता० ॥ २. तदा द खंता० ॥ ३. रणम् खंता० पाता० ॥
D:\maha-k.pm5\2nd proof