________________
२३०]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् रतिरूपसपत्नीं त्वां, दधानस्य ममोरसि । रुषा रतिपतिः शङ्के, किरत्यविरतं शरान् ॥५०॥ गुणैः श्रवणमार्गेण, तवाध्यासितमेव मे । मनो विविशुरक्षाणि, सर्वाण्यपि सुखेप्यसया ॥५१॥ इति लेखेन, दानेन, मानेन च कृतार्थितः । कुमारेण चर: प्रैषि, सम्भृतप्राभृतोच्चयः ॥५२॥ सत्कथाभिरथैतस्य, भूपो भूपसुताऽपि सा । कलयामासतस्तोषं, कमारागमकाङक्षया ॥५३॥ विनीत: सोऽपि निर्णीतलग्नस्योपरि भूपभूः । प्रयाणैः कैश्चन प्राप, तत् पुरं सपरिच्छदः ॥५४॥ सम्मुखाभ्यागतेनाथ, सिंहेन सह भूभुजा । प्रविवेश पुरीं वीरो, नृत्यन्तीमिव केतुभिः ॥५५।। पुरे प्रतिगृहं रत्नस्तम्भेषु प्रतिबिम्बितः । श्लिष्यमाणो मृगाक्षीभिः, क्षणं गलितचेतनम् ॥५६।। मनस्सु पुरनारीणां, मनोभूनगरेष्विव । एककालं विशन् विद्यां, दर्शयन् बहुरूपिणीम् ॥५७।। स रत्नभित्तितेजोभिरस्फुटद्धारभूमिकम् । प्रविवेश नृपावासं, दौवारिकगिरा परम् ॥५८॥ विशेषकम् ॥ स क्रमेणाथ भूपालसौधमूर्धानमासदत् । पूर्वपर्वतशृङ्गाग्रविभागमिव भानुमान् ॥५९।। अथ नारीजने भूरिभूषणद्विगुणधुतौ । धवलध्वनिपीयूषसञ्जीवितमनोभवे ॥६०॥ वेदोच्चारचमत्कारसप्रतापत्रयीतनौ । ब्राह्मणानां गणे स्पर्धनिरुद्धसदनाङ्गणे ॥६१।। काहलानलयन्त्रोत्थकिङ्कराननमारुतैः । दीपिते जनचित्तेषु , मकरध्वजपावके ॥६२॥
D:\maha-k.pm5\2nd proof