________________
[२२९
दशमः सर्गः]
सोऽपि प्राहाऽचलपुरे, श्रीविक्रमधनात्मजः । धनोऽस्ति मूर्तिस्तस्यैषा, मयाऽलेखि स्वकौतुकात् ॥३७॥ श्रुत्वेति तत्प्रभृत्येषा, विशेषात् त्वयि रागिणी । क्रीडां पीडामिव ज्ञात्वा, कन्यान्तःपुरमाययौ ॥३८।। त्वदेकतानचित्तेयमपि व्यापारितेन्द्रिया । त्वया व्याप्तं जगद् वेत्ति, योगिनीव परात्मना ॥३९।। एकं विहाय त्वां देव !, सा महीपतिनन्दनी । स्त्रीरूपमथवा क्लीबं, मन्यते जगदप्यदः ॥४०॥ देवीमुखादिदं सर्वं, वृत्तान्तं मेदिनीपतिः । विज्ञाय गुणविज्ञाय, भवते मां व्यसर्जयत् ॥४१॥ मामत्रागामुकं मत्वा, मेदिनीपतिनन्दनी । अमुं लेखप्रतीहारं, हारं दूतमिवाऽऽर्पयत् ॥४२॥ उक्त्वेति दूतो लेखेन, सहितं चरणान्तिके । कुमारस्यामुचन्मुक्ताहारं तत्प्राभृतीकृतम् ॥४३॥ छोटयित्वा ततो लेखमेष वेषजितस्मरः । जवादवाचयत् तोषचयपोषचमत्कृतः ॥४४॥ भवन्मूर्तिनिरस्तेन, कामेन ज्वालितं मम । मानसं त्वत्कृतावासं, सिक्तं नेत्राम्बुबिन्दुभिः ॥४५॥ न शान्ति याति तन्नाथ !, शान्ति नय दयां कुरु । दृढारम्भपरीरम्भदम्भपीयूषनिहरैः ॥४६।। परितः परितप्ताङ्गी, मदनज्वलनाचिषा । वर्धिष्णुप्रेमकल्लोले, क्षिप मां निजमानसे ॥४७।। इति लेखार्थसम्भारं, हारं च हृदये दधौ । स्निग्धोज्ज्वलस्फुरद्वर्णं, कुमार: कारणं मुदाम् ॥४८।। विमृश्याथ कुमारोऽपि, प्रतिलेखं लिलेख सः ।
शृङ्गारेणेव मूर्तेन, मृगनाभिमयाम्भसा ॥४९।। १. दत्तपी खंता० ॥
D:\maha-k.pm5\2nd proof