________________
२२८]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स राजपुरुषो राजकुमारानुमतादथ । प्रावेशयदमुं दूतमन्तःसभमुरुत्वरः ॥२४॥ विशिष्टं वेत्रिणाऽऽदिष्टे, निविष्टमथ विष्टरे । सविस्मयं वचोऽवादीज्जगतीपतिनन्दनः ॥२५।। क्षेमोऽस्ति पाटलीपुत्रपत्तेः सिंहमहीभुजः ? । कार्येण केन प्राप्तोऽसि, झटित्येवं निवेदय ॥२६॥ स वचस्वी ततः प्राह, तस्याक्षेमः कुतो भवेत् ? । श्रीविक्रमधनो यस्य, मित्रमत्रस्नुमानसः ॥२७॥ परमस्यां तु वेलायां, शीघ्रं यदहमागतः ।। कारणं शृणु तत्र त्वं, प्रयोजनमिदं तव ॥२८॥ कलत्रे विमलानाम्नि, स्वामिन् ! सिंहमहीभुजः । आस्ते धनवती पुत्री, सौन्दर्यस्येव देवता ॥२९॥ तत्र चित्रकरं कञ्चिद् , दिव्यचित्रधरं नरम् । एषा रेषाविशेषज्ञाऽपश्यद् भूपस्य नन्दनी ॥३०॥ व्यलोकयच्च तच्चित्रे, कञ्चिन्नृपतिनन्दनम् । हृदयानन्दनं राज्यलक्षणैः शुभशंसिभिः ॥३१॥ तमथ प्राह सा चित्रं, यत् त्वयैतद् विनिर्ममे । तत् कलाख्यापनायैव ?, प्रतिच्छन्दोऽथ कस्यचित् ? ॥३२॥ सोऽप्युवाच कुमारी तच्चित्रं यद् वर्ण्यते मम । विज्ञानाद्भुतमप्येतद् , विगोपककरं परम् ॥३३॥ प्रतिच्छन्दो हि यस्यायमसौ सोमसमाकृतिः । यदि दृग्गोचरं गच्छेत् , तच्चित्रं स्यान्न चित्रकृत् ॥३४॥ सतां चित्ते कृतावासः, स यश:कुसुमेषुभिः । वशीकरोति त्रैलोक्यं, द्वितीय इव मन्मथः ॥३५।। समाकयेति तद्वाचं, सा चन्द्रवदनाऽवदत् । स कुत्र ? कस्य वा पुत्रस्तस्य किंनाम नाम वा ? ॥३६।।
20
25
१. त्रस्तमा खंता० पाता० ॥
D:\maha-k.pm5\2nd proof