________________
[२३७
दशमः सर्गः]
अथ चित्रगतिं सर्वे, गर्वमुन्मुच्य खेचराः । विस्मिताः पुष्पवर्षेण, नमश्चक्रुर्गुणाधिकम् ॥१४१॥ बुबुधेऽनङ्गसेनोऽपि, स्मृत्वा गणकभाषितम् । पुष्पवृष्ट्याऽसियष्ट्या च, हृतया तं सुतापतिम् ॥१४२।। रत्नवत्यपि तं प्राप्य, पपावविरतं दृशा । मरुस्थलपथे पान्थाः, पाथ:पूरमिवादरात् ॥१४३॥ सोऽपि चित्रगतिर्वीक्ष्य, कैरवाक्षीमिमां तदा । मग्नामुदधरत् कष्टं, तल्लावण्यहृदे दृशम् ॥१४४।। परस्परमथैताभ्यां, गतभ्यामेकतामिव । स्वं मनः प्रेमसर्वस्वकोशाध्यक्ष इवार्पितम् ॥१४५।। अथ स्वस्वपुरं प्रापुः, प्रीताः सर्वेऽपि खेचराः । हर्षमुत्कर्षयन्तोऽन्तः, स्तुत्या चित्रगतेस्तया ॥१४६।। श्रीसूरा-ऽनङ्गसेनाभ्यामादिष्टो गणकस्ततः । निश्चिकाय विवाहाय, रागिणोदिनमेतयोः ॥१४७।। विवाह्य रत्नवत्याऽथ, सूर-श्चित्रगतिं सुतम् । राज्ये न्यस्य समं विद्युन्मत्या व्रतमुपाददे ॥१४८॥ स जीवं धनदेवस्य, बन्धुं नाम्ना मनोगतिम् । धनदत्तस्य चपलगतिं च मुदमानयत् ॥१४९।। मृतस्य मणिचूडस्य, स्वसामन्तस्य नन्दनौ । विभज्य विभवं राज्ञा, शशि-सूरौ च तोषितौ ॥१५०॥ एकद्रव्याभिलाषेण, कदाचिद् युध्यतोस्तयोः । मृतयोर्वार्तया राजा, वैराग्यं हृदि भेजिवान् ॥१५१।। सार्द्ध स्वकीयबन्धुभ्यां, वध्वा च वसुधाधवः । सूरेर्दमधराद् भेजे, व्रतं खड्गाभतीव्रतम् ॥१५२॥ पुरं पुरन्दरो नाम, पुरन्दरपराक्रमः । अपालयन्नृपालस्य, तस्य सूनुरनूनधीः ॥१५३।।
D:\maha-k.pm5\2nd proof