________________
नवमः सर्गः]
[२२५ तथा मनोरथारामसफलीकारकारणम् । धर्ममाराधयामास, मनो-वचन-कर्मभिः ॥२२८॥ मणिचूडनृपेणापि, स्वयं दीक्षां जिघृक्षुणा । युगवाहुनृपश्चक्रे, सर्वविद्याधरेश्वरः ॥२२९॥ इति जन्मान्तरोपात्ततप:सम्भूतवैभवः । आराधयदिदं राज्यद्वयं लोकद्वयं च सः ॥२३०।। इति नृपयुगबाहोः सच्चरित्रं पवित्रं, तव सचिवशचीश ! स्पष्टमेतत् प्रदिष्टम् । सततमपि निषेव्यं सिद्धिकामैः प्रकामं. निरुपमसुखलक्ष्मीकेलिदीपस्तपस्तत् ॥२३१॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते
श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यङ्के महाकाव्ये तपःप्रभावोप युगबाहुचरितं वर्णनो नाम नवमः सर्गः समाप्तः ॥
मुष्णाति प्रसभं वसु द्विजपतेर्गौरीगुरुं लङ्घयन् , नो धत्ते परलोकतो भयमहो ! हंसापलापे कृती । उच्चैरास्तिकचक्रवालमुकुट ! श्रीवस्तुपाल ! स्वयं, भेजे नास्तिकतामयं तव यश:पूर कुतस्त्यामिति ? ॥१॥ आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति, स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः ? । अस्मिन् विस्मयनीयबुद्धिजलधिर्विध्वस्य दस्यून् करे, कुर्वन् पुण्यनिधिं धिनोति वसुधां श्रीवस्तुपालः पुरम् ॥२॥
॥ ग्रन्थाग्रम् २४७ ॥ उभयम् २७९३॥
15
20
.
.
१. °मेवोपदि खंता० ॥ २. °रितनामा नव पाता० ॥ ३. पतेर्गोरी खंता० पाता० ।। ४. °ल! स्फुटां, भेजे खंता० पाता० ॥ ५. °लधेवि पाता० ।। ६. ध्वस्तद वता० ॥७. °निधेधिनो' पाता० ।। ८. सर्गग्रन्था खंता० ॥
D:\maha-k.pm5\2nd proof