________________
दशमः सर्गः ॥
10
कार्मणं शर्मलक्ष्मीणां, मूलं धर्ममहीरुहः । आस्पदं सम्पदामेकमिदं दीनानुकम्पनम् ॥१॥ श्रीमन्नेमिजिनेनेव, तदिदं बुद्धिशालिना ।
पालनीयं प्रयत्नेन, लोकोत्तरफलार्थिना ॥२॥ [दीनानुकम्पायां श्रीनेमिजिनचरितम् ]
इहैव भरतक्षेत्रे, जम्बूद्वीपविभूषणे । अस्ति स्वर्गोपमं धाम्ना, नाम्नाऽचलपुरं पुरम् ॥३॥ गृहान् सप्तक्षणान् यत्र, वीक्ष्य सप्ताश्वसप्तयः । क्षणं स्खलन्ति मध्याह्ने, स्फुटं कृतकुटीभ्रमाः ॥४।। श्रीविक्रमधनो नाम, तत्रासीदीशिता भुवः । यदसौ यमुनाधाम्नि, मग्ना यान्ति द्विषो दिवि ॥५॥ रेजे रणाजिरं यस्य भिन्नेभरद-मौक्तिकैः । छिन्नवैरियशोवृक्षशाखाकुसुमसन्निभैः ॥६॥ शम्भोरुमेव रम्भोरुरम्भोरुहविलोचना ।
धारिणीति प्रिया तस्य, बभूव सहचारिणी ॥७॥ $अन्यदाऽसौ निशाशेषे, सुखसुप्ता व्यलोकयत् ।
स्वप्नान्तर्मञ्जरीमञ्जुसहकारकरं नरम् ॥८॥ जगाद सोऽप्यसौ देवि !, सहकारमहीरुहः । कल्पपादपकल्पश्रीरारोप्यस्त्वद्गृहाङ्गणे ॥९॥ ततश्चोद्धारमुद्धारमयमारोपितो मया । आम्रो नवमवेलायां, फलिताऽनवमं फलम् ॥१०॥
15
१. दिवम् खंता० पाता० ॥