________________
10
२२४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तद्यथा- कः सकलः ? सुकृतरुचिः, कः सद्बुद्धिविधेयकरणगणः ।
कः सुभग: ? शुभवादी, को विश्वजयी ? जितक्रोधः ॥२१५॥ ततस्तुष्टेषु सभ्येषु , स्तुवत्सु गुणवत्सु च । कुमारी सचमत्कारं, कुमारमपि च दृशा ॥२१६।। तं वधू-वरसम्बन्धबन्धं विदधतो विधेः । तदाऽनौचित्यकारित्ववाच्यमुन्मूलितं जनैः ॥२१७।। विप्राणां मन्त्रनिर्घोषैर्जनानां हर्षनिःस्वनैः । बन्दिकोलाहलैस्तूर्यैः, शब्दाद्वैतं तदाऽभवत् ।।२१८।। अथ मौहूर्तिकादिष्टे, लग्ने सर्वग्रहेक्षिते । क्षितेरधिपती पाणिं, ग्राहयामासतुः सुतौ ॥२१९॥ वधू-वरं च हस्त्यश्व--रथा-ऽलङ्करणांशुकैः । अर्चयामासतुः स्नेह-विभव-प्राभवोचितैः ॥२२०॥ पाठसिद्धाश्च साध्याश्च, तत्तत्कर्मसु कर्मठाः । जामात्रे प्रददौ विद्या, विद्याधरनेश्वरः ।।२२१।। सप्रपञ्चमहामञ्चमुदारद्वार-तोरणम् । उत्पताकं विशामीशस्ततः प्रावीविशत् पुरम् ॥२२२।। सम्मान्य मणिचूडादीन् , विद्याधरधारधवान् । राजधानी निजनिजां, राजा हृष्टो विसष्टवान ॥२२३।। नृपः पवनवेगोऽपि, गोपिताविनयस्ततः । सत्कृत्य कृत्यदक्षेण, प्रैषि विक्रमबाहुना ॥२२४।। आपृच्छ्य पौरधौरेयानभ्यर्च्य पुरदैवतान् । विमोच्य बन्धनक्षिप्तान् , दीनादीननुकम्प्य च ॥२२५॥ पुण्यपात्राय पुत्राय, दत्त्वा राज्यश्रियं स्वयम् । नृपेणान्यैः सुदुष्प्रापा, संयमश्रीरुपाददे ॥२२६।। युगबाहुमहीनाथो, विद्यासिद्ध्याऽतिदुर्धरः ।
नृपांहिपान् नतिं निन्ये, हेलयैव महाबलः ॥२२७।। १. स्तुतिवत्सु गुणोच्चयम् । कुमा° पाता० ॥ २. °मश्रीः समाददे खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof