________________
नवमः सर्गः]
[२२३ परितः कारयामास, मांसलान् भूमिवासवः । मञ्चान् विमानसन्तानमानमुद्रामलिम्लुचान् ॥२०२।। युग्मम् ॥ सकौतुकप्रपञ्चेषु , मञ्चेष्वथ यथायथम् । भूचराः खेचराः सर्वे, निषेदुर्मेदुरश्रियः ॥२०३॥ ततो विक्रमबाहुश्च, मणिचूडश्च पार्थिवौ । निविष्टौ मण्डपे तत्र, चन्द्रा-ऽर्काविव पर्वणि ॥२०४॥ सप्रागल्भ्येषु सभ्येषु , स्थितेषु स्मेरविस्यम् । आसीनेषु ससम्म, कोविदानां गणेषु च ॥२०५।। स्वदेश-परदेशेभ्योऽभ्यागतेषु सकौतुकम् । अपरेष्वपि लोकेषु , निषण्णेषु यथायथम् ॥२०६।। एत्य लक्ष्मी-सरस्वत्योरिव जङ्गमसङ्गमः । आसाञ्चक्रे कुमारोऽसौ, पादपद्मान्तिके पितुः ॥२०७॥ विशेषकम् ।। ततोऽनङ्गवती तत्र, मूर्तेवाज्ञा मनोभुवः । क्षीरोदनिर्गतेव श्रीः, कलाकेलिरिवाङ्गिनी ॥२०८।। याप्ययानात् समुत्तीर्य, प्रतीहारीभिरावृता । सानन्दमिन्दुलेखेव, तारकानिकराञ्चिता ॥२०९।। प्रणम्य चरणौ पित्रोः, पादाङ्गष्ठापितेक्षणा । निषसादाग्रतो लोकलोचनाञ्चलवीजिता ॥२१०।। विशेषकम् ।। राजात्मजागुरुः प्राह, कुमार ! क्रियतामयम् । राजपुत्रीकृतप्रश्नचतुष्टयविनिर्णयः ॥२११॥ अभ्यधान्नृपपुत्रोऽथ, पित्रोरानन्दमुगिरन् । उच्चैर्वाचंयमीभूय, जनैः साक्षेपमीक्षितः ॥२१२।। याऽग्रेऽस्ति स्वर्णपाञ्चाली, निर्वाचालीकृतानना । कर्ता मद्वचनादेषा, समस्तप्रश्ननिर्णयम् ॥२१३॥ ततः सा बालिका पाञ्चालिका साऽप्यार्ययैकया । उच्चैरुच्चेरतुः प्रश्नमुत्तरं च क्रमादिदम् ॥२१४।।
D:\maha-k.pm5\2nd proof