________________
5
10
15
20
25
२२२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
पुत्रीमुद्वोढुकामोऽयमकृतप्रश्ननिर्णयः । विलक्षो हृतवानेतां, द्विको मुक्तालतामिव ॥ १८९॥ ततोऽनुपदिनस्तस्याः, खेचराः सर्वतो ययुः । अस्यास्तु मातुलः सोऽहमिहायातोऽस्मि दैवतः ॥१९०॥ पुरः पवनवेगोऽयं, जामेयी च ममाप्यसौ । प्राणप्रदस्य सर्वेषां, किं ते प्रतिकरोमि तत् ? ॥१९१॥ §§ रत्नचूडाभिधे तस्मिन्नेवं वदति खेचरे । मणिचूडनृपोऽप्यागात्, तत्रैव सपरिच्छदः ॥१९२॥
उवाच च महाबाहो !, सुतेयं मम जीवितम् । सर्वस्वमपि चैतन्मे, तत् त्वयैवाऽऽत्मसात् कृतम् ॥१९३॥ मम नैमित्तिकेनास्याः कथितस्त्वं पतिः पुरा । साम्प्रतं ज्ञापितश्चासि मम विद्याधरेश्वरैः ॥ १९४॥ तत् त्वां प्रतिप्रदानेऽस्याः, का नाम प्रभुता मम ? | किन्तु प्रतिज्ञानिर्वाहोऽप्यस्यास्त्वय्येव तिष्ठति ॥ १९५॥ निष्कारणोपकर्तारः, क्व नाम स्युर्भवादृशा: ? । दृष्टः किं विष्टपोज्जीवी, यदि वा न दिवाकरः ? ॥ १९६ ॥ 8 एवं वदति सानन्दं, विद्याधरनेश्वरे ।
ज्ञात्वा वृत्तान्तमाजग्मे, तत्र विक्रमबाहुना ॥ १९७॥ सङ्गमस्तत्र चान्योन्यमुभयोरपि भूभुजोः । प्रशस्यः समभूद् गङ्गा- कालिन्दीस्रोतसोरिव ॥१९८॥ ततः पवनवेगोऽपि, नृपं नत्वेदमब्रवीत् । भृत्योऽस्मि विक्रमक्रीतस्ताताहं युगबाहुना ॥ १९९॥ मणिचूडादयस्तत्र, सर्वे विद्याधरेश्वराः । राज्ञा समर्प्य सौधानि, सत्कृता वसना - शनैः ॥ २००॥ पुरीपरिसरे रम्ये, तत्र संसूत्र्य मण्डपम् । सुधर्मायाः सधर्माणं, कार्मणं विश्वचक्षुषाम् ॥२०१॥ १. स्यास्तु सोऽवतिष्ठते पाता० ॥
D:\maha-k.pm5\ 2nd proof