________________
[२२१
10
नवमः सर्गः]
तदाऽरिवचनैर्यावत् , कुमारस्य प्रसेदुषः । विमुक्तस्तम्भनः शत्रुर्दान्तः पादान्तमागमत् ॥१७६।। तावदाविर्बभूवाग्रे, कोऽप्युत्तीर्य विमानतः । भास्वरोदारनेपथ्यधरो विद्याधरोत्तमः ॥१७७।। कुमारस्य पुरः सोऽपि, विस्फुरत्करकोरकः । जगाद युगबाहो ! त्वं, सुस्थितः शृणु मे वचः ॥१७८।। तथास्थिते कुमारे च, पुरुषे च पुरःसरे । कथां प्रस्तावयामास, विद्याधरधुरन्धरः ॥१७९।। भरतक्षेत्रसीमन्तवैताढ्योत्तरदिग्गतम् । अस्त्यपास्तामरपुरं, पुर गगनवल्लभम् ॥१८०।। मणिचूडाभिधस्तत्र, पतिविद्याधरेश्वरः । प्रिया च तस्य पूर्णेन्दुवदना मदनावली ॥१८१।। कुलदेवतया दत्ता, सुताऽनङ्गवती तयोः । जज्ञेऽद्वैतचतुष्पष्टिकलाकौशलशालिनी ॥१८२॥ आरूढयौवना सा च, प्रतिज्ञामिति निर्ममे । यः कोऽपि दास्यति प्रश्नचतुष्केऽपि ममोत्तरम् ॥१८३।। स एव भावी भर्ता मे, खेचरो भूचरोऽथवा । ततः श्रुत्वा प्रतिज्ञां तां, विद्याधरनराधिपाः ॥१८४।। गर्वतः सर्वतोऽभ्येत्य. प्रश्नोत्तरबहिर्मखाः । वृथाऽभवन्नपुण्यानामिव लक्ष्मीमनोरथाः ॥१८५।। ततश्चार्तेन भूभा, पृष्टो नैमित्तिकोत्तमः । युगबाहुं शशंसास्या, भाविनं भूचरं वरम् ।।१८६।। ततः प्रभृति सा तत्र, लक्ष्मीरिव मुरद्विषि । बद्धभावाऽभवत् कामं, गुणैः श्रुतिपथागतैः ॥१८७।। पूर्वेद्युः प्रातरेवास्य, सभासीनस्य भूभुजः ।
आगात् पवनवेगाख्यः, खगः शङ्खपुरेश्वरः ॥१८८॥ १. थातिगैः ॥ खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof