________________
5
10
15
20
25
२२० ]
कुमारः खड्गमाकृष्य, ततः क्रोधादधावत ।
स्त्रीघातपातकिन् ! क्रूर ! क्व रे ! यासीति तर्जयन् ॥१६३॥ युग्मम् ॥ अथासौ पुरुषः प्राह, भद्र ! द्रुतमितः सर ।
रजकस्याऽऽयुषि क्षीणे, खरवन् म्रियसे कथम् ? ॥१६४॥ कुमारोऽप्यब्रवीत् प्राणैरेभिः सत्वरगत्वरैः । यशःपुण्यमयस्वार्थपरं मां धिक् करोषि किम् ? ॥१६५॥ किञ्चातिक्रूरमेतत् ते, निर्मातुं कर्म नोचितम् । लोकद्वयविरुद्धं हि, विदधाति सुधीः कुतः ? ॥१६६॥ नरोऽप्युवाच साचिव्यं, किमहो ! मद्गृहे तव । हितोपदेष्टा येनाभूर्युयुत्सुरपि सम्प्रति ? ॥१६७॥ इत्युक्त्वा धाविते तस्मिन्, नरे रणरसातुरे । खड्गाखड्गि चिरं वृद्धं, युद्धमुद्धतमेतयोः ॥१६८॥ अथाजय्यं रिपुर्मत्वा, कुमारं मारविक्रमम् । निःशूको दन्दशूकास्त्रं, साक्षेपः क्षिप्रमक्षिपत् ॥ १६९॥ ततोऽहिपाशनाशाय, मन्त्रमत्रस्तमानसः । कुमारः शारदादत्तं, वैरिघस्मरमस्मरत् ॥१७०॥ तयोरित्यस्त्रमस्त्रेण, विनिवारयतोर्मिथः । शारदामन्त्रमाहात्म्यादङ्गस्तम्भो रिपोरभूत् ॥१७१॥ ततः कुमारमाहात्म्याद्, विस्मितोऽसौ गतस्मयः । मलं ममार्ज दौर्जन्यजनितं वचनामृतैः ॥१७२॥ तदाऽवदानमालोक्य, त्रैलोक्योपरिवर्ति तत् । परोपकारव्यापारसज्जितं च तदूर्जितम् ॥१७३॥ रूपं चानन्यसामान्यं, तच्च सौभाग्यमद्भुतम् । सा कन्या विस्मयोत्तानमानसैवमचिन्तयत् ॥१७४॥ युग्मम् ॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
स एव यदि राजेन्दुनन्दनोऽयमिहागमत् । उपचक्रे ममैतर्हि, तर्हि विद्याधराधमः ॥ १७५ ॥
१. 'जर्यं रि° खंता० ॥
D:\maha-k.pm5\ 2nd proof