________________
नवमः सर्गः ]
प्रमोदविस्मयस्मेरवदनस्तदनन्तरम् । उत्सुकोऽहं जवादेव, देवपादान्तमागमम् ॥१५०॥ SS नृपस्तदा तदाकर्ण्य, सुतस्य महिमाद्भुतम् । यौवराज्यं ददौ सर्वपुरोत्सवपुरःसरम् ॥१५१॥ कुमारोऽपि श्रियं प्राप्य, सहकार इवाद्भुताम् । गमयामासिवान् काममर्थिसार्थं कृतार्थताम् ॥१५२॥ §§ अर्द्धरात्रेऽन्यदा वासगृहे पर्यङ्कवर्तिनः ।
युवराजस्य शिश्राय, श्रवणं रुदितध्वनिः ॥१५३॥ जिज्ञासुः प्रभवं तस्य, कुमारः करुणामयः । कृपाणपाणिर्निर्गत्य, गतवानध्वनि ध्वनेः ॥१५४॥ असावन्तर्वणं यातस्तत्र वित्रस्तलोचनाम् । म्लानीभवन्मुखाम्भोजां, सायमम्भोजिनीमिव ॥१५५॥ लावण्यपुण्यतन्वङ्ग, प्रात: शशिकलामिव । रुदतीं सुदतीमेकामपश्यद् विस्मयाञ्चितः ॥ १५६॥ युग्मम् ॥ नरेण दिव्यरूपेण, पुरः प्रोल्लासितासिना । तामर्थ्यमानामालोक्य, स तस्थौ विटपान्तरे ॥ १५७॥ स नरश्चाटुकारोऽपि रोपितावज्ञमीक्षितः । सुमुखीं विमुखीमेतां, रूक्षाक्षरमदोऽवदत् ॥१५८॥ मयि प्रपन्नदास्येऽपि दास्यते यदि नोत्तरम् । तदसिर्दृश्यतामेष, स्मर्यतामिष्टदैवतम् ॥१५९॥
ऊचेऽथ कन्या रे मूढ !, स्मरामि कमिवापरम् ? । युगबाहुकुमारोऽस्ति, हृदि मेऽद्वैतदैवतम् ॥१६०|| यद्यत्र मन्दभाग्याया, नैव दैवेन दर्शितः ।
भवान्तरेऽपि मे भूयात्, प्राणनाथस्तथापि सः ॥१६१|| युग्मम् ||
हृष्टः स्वनामश्रवणान्नामसाम्याच्च शङ्कितः । विस्मितो वनितारूपाज्जुगुप्सुः क्रूरकर्मणा ॥ १६२॥
[ २१९
D:\maha-k.pm5\ 2nd proof
5
10
15
20
25