________________
5
10
15
20
25
२१६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्थमाराधनाभाजस्तव स्तवन-पूजनैः । गङ्गाकन्यकया चक्रे, मया सत्त्वपरीक्षणम् ॥ ११२॥ किञ्च प्रेष्य प्रतीहारीमिहानीतोऽसि सम्प्रति । इदं दर्शयितुं वत्स !, स्वक्रीडाभवनं तव ॥ ११३॥ तत् तवाहमनेनोच्चैः, साहसेनास्मि विस्मिता । कुरुषे पुरुषेष्वग्र्य!, कथमाराधनामिमाम् ? ॥११४॥ किञ्चानाराधिताऽप्युच्चैः, प्राच्यैस्ते पुण्यकर्मभिः । परतन्त्रेव तुष्टाऽस्मि, सकर्णाऽऽकर्णय क्षणम् ॥११५॥ [ युगबाहुकुमारस्य पूर्वभवः ] §§ तथाह्यासीत् पुरा पुष्पपुरे जितमरुत्पुरे । निर्धनः कोऽपि दारिद्यराजधानीव देहिनी ॥ ११६॥ महेऽन्येद्युः स कौमुद्यामुद्याने वीक्ष्य नागरान् । अर्थिसङ्कल्पकल्पद्रूनिव साक्षादचिन्तयत् ॥११७॥ मन्दभाग्योऽतिनिर्लज्जः, पात्रं निन्दितकर्मणाम् । मया समः समस्तेऽपि नास्त्यन्यः कोऽपि भूतले ॥ ११८ ॥ यदस्मिन्नुत्सवे पौरान्, वीक्ष्य दानाद्यलङ्कृतान् । नैवाद्यापि विमुच्येऽहं प्राणैः पाषाणनिष्ठुरैः ॥ ११९॥ इहान्तरेषां पौराणामहो ! मे सम्पदुत्तमा । निर्वाणाङ्गारकस्येव, शोणमाणिक्यमध्यतः ॥१२०॥ समानेऽपि मनुष्यत्वे, विशेषोऽयं यदद्भुतः । तदत्राहमहो ! मन्ये, पुण्या - पुण्ये निबन्धनम् ॥१२१॥ तन्मया यत् क्वचित् किञ्चिन्न कृतं सुकृतं पुरा । दुःखपात्रं तदत्राहमभवं विभवं विना ॥१२२॥ अङ्गत्यागं ततो गत्वा, करिष्ये किल भैरवे । यथा भवाम्यहं दुःखभाजनं न भवान्तरे ॥ १२३ ॥ १. हारीं मयाऽऽनीतो खंता० ॥
D:\maha-k.pm5\ 2nd proof