________________
[२१७
नवमः सर्गः]
पर्यालोच्यते तत्रागादुत्सुको भैरवोपरि । अभीष्टदेवतायाश्च, नमस्कारं चकार सः ॥१२४।। झम्पापातं चिकीर्षुश्च, दिशो व्यालोकयन्नयम् । शमं मूर्तमिवाशोकतले मुनिमुदैवत ॥१२५।। दृष्ट्वा च तं नमश्चक्रे, भावपावनमानसः । क्षणं चोपासनाहेतोः, पुरस्तादुपविष्टवान् ॥१२६॥ ध्यानान्तेऽथ मुनीन्द्रोऽपि, ज्ञानत्रयमयः स्वयम् । ज्ञात्वोपकारमूचे तं, सुधामधुकिरा गिरा ॥१२७।। कुतस्त्वमागतो वत्स !, वनमेतदमानुषम् ? । कथं चेत्यद्भुतानन्दो, वर्तसे प्राप्तरत्नवत् ? ॥१२८।। उवाच सोऽपि दारिद्रयसमुद्रस्य महामुने ! । पारं तीर्थममुं प्राप्य, भैरवं मुदितोऽस्म्यहम् ॥१२९॥ तदत्र कृतकृत्योऽस्मि, युष्मदर्शनतोऽधुना । विशुद्धमियता मन्ये, भवान्तरमहं निजम् ॥१३०॥ अथोवाच मुनीन्द्रस्तं, वाचा मधु-सुधामुचा । कुतस्त्वमितिमूढोऽसि, वत्साविदिततत्त्ववत् ॥१३१॥ "सुलभा जीवलोकेऽस्मिन् , धृति-श्री-सुख-सम्पदः । चिन्तारत्नमिवात्यन्तदुर्लभं जन्म मानुषम् ॥१३२॥ तत् तस्यानुपभुक्तस्य, त्यागः किमिति युज्यते ? । यदस्य न पुनः प्राप्तिः, सहस्त्रेणापि जन्मनाम् ॥१३३॥ कृतेन मृत्युना जन्तोह एव विनश्यति । लाभान्तरायकृत कर्म, न पुनः पूर्वनिर्मितम् ॥१३४॥ तत्तत्कर्मविनाशाय, प्रायः कायस्तपोऽग्निना । संशोष्य निर्मल: स्वात्मा, बुद्धिमद्भिर्विधीयते ॥१३५॥ तदन्तरायकृत् कर्म, कृतमज्ञानपूर्वकम् ।।
ज्ञानाराधनशुद्धेन, तपसा हि विलीयते ॥१३६॥ १. °मुचेऽमुं, सुधामधुरया गिरा खंता० ॥ २. °स्त्वमति° वता० ॥
25
D:\maha-k.pm5\2nd proof