________________
10
नवमः सर्गः]
[२१५ अग्रतश्च गतश्चित्रकारणं तापवारणम् । प्रासादमेकमद्राक्षमुच्चैः सप्तक्षणं क्षणात् ॥९९।। प्रविश्य तस्मिन्नारूढः, षष्ठीं यावदहं भुवम् । जज्ञे कर्णातिथिस्तावन्मम सङ्गीतनि:स्वनः ॥१००॥ गत्वाऽग्रतस्ततस्तत्र, द्वारदेशे विलम्बितः । कयाचिद् वेत्रधारिण्या, क्षणादागत्य भाषितः ॥१०१।। अहं श्रीशारदादेव्या, त्वदाकारणहेतवे । शब्दविद्याप्रतीहारी, प्रेषिता तत् पुरो भव ॥१०२।। तत् तयाऽहं सह प्राप्तः, शारदाचरणान्तिकम् । अपश्यं तुम्बुरुस्फीतगीतप्रीतिस्मितेक्षणाम् ॥१०३।। चारुचारीप्रचारेण, नृत्तेनाप्सरसां पुरः । प्रेक्षाकौतूहलेनोच्चैः, क्षणमाक्षिप्तचक्षुषम् ॥१०४।। हंसेन विहितोपास्ति, सेवितां देव-दानवैः । वादयन्तीं स्वयं वीणां, हिरण्यकमलासनाम् ॥१०५।। निजकान्तिसुधापूरैलिम्पन्तीमिव सेवकान् । बिभ्रती पुस्तकं हस्ते, रोहन्मोहमहौषधम् ॥१०६॥ तर्क-साहित्यविद्याभ्यां, वाम-दक्षिणपार्श्वयोः । वालव्यजनपाणिभ्यां, वीज्यमानां मुहुर्मुहुः ॥१०७॥ प्रशान्तपावनी मूर्ति, दधानां वचनातिगाम् । शारदां शारदाम्भोदविशदस्वच्छवाससम् ॥१०८।। षड्भिः कुलकम् ॥ अथाहं हर्षसोत्कर्षचेता विकसिताननः । नमोऽकार्षं तदा देवी, मधुर-स्निग्धमीक्षितः ॥१०९॥ वाग्देव्याऽहं स्वयं पादपीठेऽथ विनिवेशितः । क्षणं जज्ञे किल प्राप्तो, मोक्षादपि परं पदम् ॥११०॥ हारहूरानुहारिण्या, गिरा देव्याऽथ भाषितः ।
मा वत्स ! विस्मयायत्तं, कार्षीश्चित्तं नृपाङ्गज ! ॥१११।। १. °दसोदरस्वच्छ खंता० ॥
20
25
D:\maha-k.pm5\2nd proof