________________
२१४]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पारितोषिकदानेन, तं सत्कृत्याथ पूरुषम् । नृपतिविस्मयस्मेरो, यावदुत्तिष्ठति स्वयम् ॥८६।। तावत्तल्लोककोकानां, शोकमुन्मूलयन्नयम् । स्वच्छशोचिरलङ्कारभासुराकारविग्रहः ।।८७।। स्वयमीक्षणराजीवजीवातुः प्रातरागतः । भास्वानिवोदयकलादुर्निरीक्षो नृपाङ्गजः ॥८८॥ युग्मम् ॥ नन्दनं चन्दनस्यन्दसुन्दराकारभासुरम् । प्रणमन्तं परिष्वज्य, जगाद जगतीपतिः ॥८९।। अदृश्यत्वं स्त्रिया साकं, यावत् त्वमभजस्तया । वृत्तमाख्यायि तत् तावत् , तावकैः सेवकैर्मम ॥१०॥ अतः परं परं धीमन् !, संवृत्तं यद्यदद्भुतम् । वत्स ! तत् सर्वमप्युच्चैर्मदग्रे वक्तुमर्हसि ॥९१।। स रूपमन्थो वाचमथोवाच नृपाङ्गजः । प्रक्षालितामिवात्यन्तविशदैर्दशनांशुभिः ॥९२॥ मूर्छामुषितचैतन्यस्तामेवानुव्रजस्तदा । कोऽहं ? किमर्थं ? कुत्रास्मीत्येवं न प्रतिपन्नवान् ॥९३।। क्षणेनैव ततस्तात !, स्वमपश्यं सचेतनः । मौक्तिकक्षोदमेदस्विसिकते सैकते स्थितम् ॥९४।। न तत् पुरं न सा गङ्गा, न सा कन्या न सा रसा। आकस्मिकमिदं जज्ञे, किं विचारपथातिगम् ? ॥९५।। किमिन्द्रजालं ? किं स्वप्न: ?, किं वा चैतन्यविप्लवः ? । उत मन्येऽहमन्येह, जातिर्जातिस्मरस्य मे ? ॥१६॥ विचिन्तयति क्षणं स्वामिन्नुत्थायाथ परिभ्रमन् । अपश्यमेकं कल्पद्रुकाननं हसिताननः ॥९७।। तदन्त:पक्षिभिः पृष्टकुशलोऽहं पुरो व्रजन् ।
मुमुदे नितरामन्तरारामं तं विलोकयन् ॥९८।। १. °च्छरोचि खंता० पाता० ॥ २. किञ्चाचार वता० ॥
20
D:\maha-k.pm5\2nd proof